
प्रयागराज:। वार्ताहर:। प्रयागराज नगर निगमे गुरुवासरे मानसूनपूर्वस्य सज्जतायाः विषये महत्त्वपूर्ण सभा आयोजिता। सभा मेयर उमेशचन्द्र गणेश केसरवाणी के अध्यक्षता। मेयरः अन्तिमे समीक्षासभायां दत्तानां निर्देशानां प्रगतिप्रतिवेदनं याचितवान्। नालिकानां स्वच्छतायै जनशक्तिवर्धनस्य पूर्वनिर्देशानां सन्तोष जनकं उत्तरं दातुं न शक्तवन्तः अधिकारिणः। अस्मिन् विषये महापौरः सर्वेषु क्षेत्रेषु तत्क्षणमेव जनशक्तिं वर्धयितुं आदेशं दत्तवान्। महापौरः अवदत् – कार्ये प्रमादः न सहते नगरे सञ्चितस्य कचराणां, मलिनस्य च निष्कासने विशेषं ध्यानं दातव्यम् इति आग्रहःकृतः। वीथिनालिकाभ्यः गादनिष्कासनकार्यं शीघ्रं कर्तुं निर्देशाः अपि दत्ताः। कार्ये प्रमादः न स्वीक्रियते इति महापौरः स्पष्टीकृतवान्। सः अवदत् यत् समये शुद्धिकरणस्य अभावात् वर्षायां जलप्रवाहस्य समस्या उत्पद्यते।नगरनिगमःआगामिषुदिनेषु सम्पूर्णे नगरे विशेष सफाई-अभियानं चालयितुं योजनां कुर्वन् अस्ति। एतत् अभियानं मानसूनात् पूर्वं सम्पन्नं भविष्यति।






