
देहरादून/वार्ताहर:। बुधवासरे प्रातः केदारनाथ यात्रा मार्गे दुःखद दुर्घटने त्रयः जनाः मृताः, अन्ये त्रयः जनाः घातिताः। जङ्गलचट्टी इत्यस्य समीपे १५३ क्रमाज्र्स्य विद्युत्स्तम्भस्य समीपे एषः दुर्घटना अभवत् यत्र ३-४ जनाः पर्वतात् अधः खाते पतिताः। एषा घटना प्रातः ११:३३ वादनस्य समीपे अभवत् सूचना प्राप्तमात्रेण डीडीआरएफ तथा स्थानीय पुलिस दलः तत्स्थानं प्राप्य राहत-उद्धारकार्यं आरब्धवान्। एतावता २ शवः प्राप्ताः, ३ घातिताः यात्रिकाः काण्डी मार्गेण गौरीकुण्डं प्रति प्रेषिताः सन्ति। उद्धार दलस्य मते एकः अपि व्यक्तिः खाते पतितुं सम्भावना अस्ति, यस्य अन्वेषण कार्यक्रमः प्रचलति। क्षतिग्रस्तानां स्थितिः, मृतानां परिचयः च अद्यापि न निश्चिता।केदारनाथयात्रामार्गे जङ्गलचट्टी समीपे दुर्घटनानन्तरं जनानां सावधानी पूर्वकं निष्कासनं क्रियते। दुर्घटनायाः कारणानि न निर्धारितानि, परन्तु पर्वतमार्गे स्खलितः, दुर्गमः च मार्गः सम्भाव्य कारणानि इति मन्यन्ते यात्रायाम् आगताः तीर्थ यात्रिकाः सावधानाः भवेयुः इति प्रशासनेन आह्वानं कृतम् अस्ति।






