चित्रकूटधाम्नि रामघट्टस्थ रामायणकुटीरे सम्पन्नः कार्यकर्तृविकासवर्गस्य समारोपः

आचार्यदीनदयालशुक्ल:/चित्रकूटधाम। संस्कृतभारती पूर्वोत्तर क्षेत्रस्य आयोजित: कार्यकतृविकासवर्ग: चित्रकूटधाम्नि रामघट्टस्थ रामायण कुटीरे परिसम्पन्न:। अयं वर्ग: संस्कृतभारतीद्वारा समायोजित:। समारोप समारम्भस्य अध्यक्षतां कुर्वन् अखिलभारतीय सङ्घटनमन्त्री जयप्रकाश वर्याणां पाथेयं कार्यकतृभि: सम्प्राप्तम्। सोऽवदत् अवदत् यत्-संस्कृतभारती संघटनस्य विकासाय सर्वत्र नानाविध प्रकल्पा: सक्रियतया प्रवर्तमानाः सन्ति। अथ च संस्कृत-विश्वविद्यालयश्च स्वस्व स्तरेण संस्कृतप्रचाराय तत्पराः सन्ति। अस्माकं मूलं संस्कृतस्य संघटनस्य विकास इति वर्तते। अस्माकं संस्कृतभाषा भारतीय संस्कृतेः पोषिका या शास्त्रसम्पद् अस्ति, सा सर्वथा संस्कृतभाषायाः एव प्रसूतिः। अतः अस्माकं व्यवहारे संस्कृतभाषाया: समावेशः अनिवार्यः अस्ति। वयं कार्यकर्तार: भाषाबलेन बहु किमपि साधयितुं शक्नुम:। सम्भाषण शिविराणां संचालनं अस्माकं बलं वर्तते। अस्मिन् वर्गे संस्कृत भारत्या: अखिल भारतीय महामन्त्री श्रीमान् सत्यनारायण भट्टवर्य: श्रीमान् जयप्रकाश वर्याणां सानिध्यं दिनत्रयं कार्यकर्तृभि: सम्प्राप्तम्। अस्मिन् वर्गे संस्कृत भारत्या: अखिल भारतीय शलाकापरीक्षा संयोजक: प्रो.शिवशंकर मिश्रवर्य: तथा काशीहिन्दूविश्वविद्यालयस्य आचार्या: प्रो. रामनारायण द्विवेदिवर्याणां प्रो रामशलाही द्विवेदिभागानां, सानिध्यं सम्प्राप्तम्। रामायण कुटीरस्य स्वामी श्री रामहृदय दास: ‘जिज्ञासु’ सर्वेषांमपि धन्यवादवचनेन आशीर्वादं प्रदत्वान्। कानपुर-गोरक्ष-अवध-काशी चतुर्णां प्रान्तानां ३२ कार्यकर्तार: प्रशिक्षणं प्राप्तवन्तः। समारम्भस्य आरम्भः वैदिक-मङ्गलाचरणेन जातः। संस्कृत भाषायां प्रेरकवक्तव्यैः सांस्कृतिक प्रस्तुतिभिश्च उपस्थितजनाः प्रेरिताः। अस्मिन्नेव अवसरे क्षेत्रसंघटनमन्त्री प्रमोदपण्डित:, वर्गसंयोजक: डॉ रत्नेशत्रिवेदी, जोखनपाण्डेय:, नागेश दूबे, नागेश पाण्डेय:, सर्वेश कुमार शाण्डिल्य: आश्रमस्य अन्ये विद्वज्जनाः विभिन्न सामाजिका: समागताः कार्यकर्तार: समुपस्थिताः आसन्।

  • editor

    Related Posts

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    शम्भूनाथ त्रिपाठा/प्रयागराज:। रविवासरेमाघ मेलायाःबृहत्तमःउत्सवः’मौनीअमावस्या’इति विश्वासस्य एतादृशः अपूर्वः समुद्रः दृष्टः यत् विश्वस्य अत्यन्तं विकसित राष्ट्राणि आधुनिकमहानगराणि च अपि संगमस्यवालुकाभिः बौनारूपेण दृश्यन्तेस्म एकस्मिन् दिने एव ४ कोटिभ्यः अधिकाः भक्ताः संगमतटेषु डुबकीं कृतवन्तः।…

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    नवदेहली। भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्। निर्वाचनप्रक्रियायां भागं ग्रहीतुं सर्वे भाजपा मुख्यमन्त्रिणः, राज्य-एककानां प्रमुखाः, अन्ये च प्रमुखाः नेतारः दलस्य मुख्यालये एकत्रिताः भविष्यन्ति। नबीनः दलस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 96 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 55 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 45 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 39 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 53 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 77 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page