
लखनऊनगरम्। लखनऊविश्वविद्यालयस्य हिन्दीपत्रकारिता-संचारविज्ञानविभागस्य नवाध्यक्षरूपेण डा. सौरभ मालवीयः नियुक्तः अस्ति। डा. मालवीयः हिन्दीपत्रकारितायाः, साहित्यस्य च क्षेत्रे सुप्रसिद्धः विद्वान् अस्ति। उत्तरप्रदेशराज्ये देवरिया जनपदस्य पटनेजीग्रामे जातः डा. मालवीयः भोपालनगरे स्थितस्य माखनलाल चतुर्वेदी राष्ट्रीय पत्रकारितासंचारविश्वविद्यालयात् प्रसारणपत्रकारितायाम् स्नातकोत्तरं प्राप्तवान्। तदनन्तरं ‘सांस्कृतिकराष्ट्रवादः च माध्यमशक्तिः’ इत्यस्मिन् विषयेसन् शोधकार्यं कृत्वा विद्यावारिधिः उपाधिं प्राप्तवान्। डा. मालवीयस्य लेखनं विचार समृद्धं, राष्ट्रनिष्ठं च अस्ति। सः भारतस्य विभिन्न पत्रिकासु समाचारपत्रेषु च समसामयिकविषयेभ्यः तात्त्विकं लेखनं करोति। दूरदर्शनवृत्तेषु अपि राजनैतिकसामाजिक विषयेभ्यः स्पष्टं मन्तव्यं प्रदत्तुं प्रसिद्धः अस्ति। तस्य प्रमुखग्रन्थाः—‘राष्ट्रवादीपत्रकारितायाः शिखरपुरुषः अटल बिहारी वाजपेयी’, ‘विकासमार्गे भारतः’, ‘राष्ट्रवादः च माध्यमम’, ‘भारतबोधः’, ‘अंत्योदयस्य साकारः उत्तरप्रदेशः’, ‘स्वर्णिम हस्ताक्षराः हिन्दी पत्रकारितायाः’, ‘भारतीयराजनीतिः महानायकः नरेन्द्रमोदी’ इत्यादयः सुपठनीयाः सन्ति। तस्य लेखनकार्याय उत्कृष्टसेवायै च विष्णुप्रभाकर पत्रकारिता सम्मानः, प्रवक्ताडॉट् कॉम लेखक सम्मानः, लखनऊ रत्नसम्मानः, अटलसंवादसम्मानः, अटल श्री सम्मानः, सर्वपल्लीराधाकृष्णनशिक्षकसम्मानः, पण्डितप्रतापनारायणमिश्रयुवासाहित्यकारसम्मानः च प्राप्ताः। तस्य नियुत्तäया विभागस्य शैक्षिकगुणवत्ता, अनुसन्धाने च नवीन गत्यागमनं भविष्यति इति आशा अस्ति।






