उत्तराखण्डसचिवालये संस्कृतसंभाषणशिविरम् आयोजितम्

देहरादूनम्। संस्कृतभाषा भारतस्य प्राचीनतमा समृद्धा च भाषा। एषा न केवलं तावद् आध्यात्मिक-सांस्कृतिक-परम्परायाः संवाहिका, अपि तु वैज्ञानिक-प्रशासनिक-वैचारिक दृष्ट्या अपि परमोपयोगिनी। उत्तराखण्ड राज्यं सांस्कृतिकराज्यरूपेण प्रसिद्धम् , अत्र संस्कृत प्रचारस्य विशिष्टं महत्त्वम्। तेन तावद् उत्तराखण्ड सचिवालये संस्कृत संभाषण शिविरस्य सञ्चालनमिति अत्यन्तं समीचीनं दूरदर्शिपूर्णं च संलक्ष्यते। प्रशासनिक संवर्धनाय सचिवालये कार्यरताः अधिकारिणः-कर्मचारिणः यदि संस्कृत संभाषणं कुर्वते तर्हि प्रशासनिक कार्येषु अपि संस्कृत भाषायाः उपयोगिता वर्धेत। सांस्कृतिक परिचयस्य अनुरूपतायाम् उत्तराखण्ड राज्यं देवभूमिरिति प्रसिद्धम्। अत्र संस्कृतस्य सांस्कृतिकः सम्बन्धः अतीव प्रगाढः। सचिवालयः राज्यस्य सांस्कृतिक स्वरूपस्य प्रतिनिधित्वं कुरुतेऽतः तत्र संस्कृतप्रयोगः सचिवालयस्य गौरवं वर्धते। जनमानसे प्रेरणायाः कारणं यद्यदा सचिवालये एव संस्कृतभाषा प्रयुज्यते, तदा सामान्यजनानां चित्ते संस्कृतभाषां प्रति श्रद्धा, आकर्षणं च स्वतः उत्पद्येते। अस्य तावद्दूरगामिनः परिणामाः सम्भविष्यन्ति यत्प्रशासनिके पारम्परिक भाषा समावेशः। अयम् आरम्भो भारतीयभाषाणां प्रशासनिके तन्त्रे पुनर्स्थापनस्य दिशि एकः आधार स्तम्भःभवितुमर्हति।शैक्षिक संस्थानानां कृते प्रेरणास्पदं यच्छिबिरस्य आयोजनं सचिवालयस्तरे यदा भवति, तदा अन्येऽपि विभागाः शिक्षण संस्थाश्च अपि एतां संप्रेरणां लभेरन्। राष्ट्रियस्तरे आदर्शरूपेण एवं प्रकारेण आयोजितं शिबिरम् अन्येषां राज्येषां कृतेऽपि प्रेरणास्रोतः स्यात्। तस्मात् राष्ट्रस्तरे संस्कृतसंभाषण चेतना प्रसारितुं शक्येत।
राज्यस्य ब्राण्डिंग-संस्कृतप्रियमिति राज्यरूपेण उत्तराखण्डस्य वैश्विकं प्रतिष्ठानं सुदृढं, येन पर्यटनं, संस्कृतिः, शिक्षा इत्येतेषु क्षेत्रेषु नवीनानि द्वाराणि अनावृतानिभविष्यन्ति। उत्तराखण्ड सचिवालये संस्कृतसंभाषणशिबिरस्यसञ्चालनंकेवलं भाषिकाभ्यास रूपेण न द्रष्टव्यम्, अपितु एषः प्रयासः राज्यस्य सांस्कृतिक चेतनायाः प्रशासनिक नवोन्मेषस्य च प्रतीकरूपेण स्थातुम् अर्हति। एषः दृढः प्रयासः संस्कृत भाषायाः पुनरुज्जीवनाय चिरजीवितायै व्यवहारिक भाषारूपेण स्थापनाय च सहायको भविष्यति।

  • editor

    Related Posts

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    देहरादून/वार्ताहर:। हरिद्वारनगरे देवसंस्कृति विश्वविद्यालयेन आयोजिते ध्वजारोहण समारोहे मुख्यमन्त्री पुष्करसिंह धामी, केन्द्रीय संस्कृति पर्यटन मन्त्री गजेन्द्रसिंह शेखावतः च भागं गतवन्तौ।वक्तारः गायत्री परिवारस्य शताब्दी समारोहं भारतीय संस्कृतेः,सेवायाः, आध्यात्मिक व्यवहारस्य च पुन र्जागरणस्य…

    मौनस्नानसमये संस्कृते: अद्भुतध्वनिः अनुभूयते स्म, सनातनमेला सह अनुशासनस्य अद्वितीयं पाठं दत्तवान्

    शम्भूनाथ त्रिपाठी/प्रयागराज:। मौनी अमावस्यायां सनातन भक्तानाम् शोभायात्रा प्रतिघण्टां अभिलेखान् भङ्गयति स्म। शनिवासर-रविवासरात् प्रयागराजः गङ्गा-यमुना-अदृश्य-सरस्वती-सङ्गमे मौनेन स्नान-जनैः परिपूर्णः आसीत्। एतेषु समीपस्थ ग्रामेभ्यः जनाः शिरसि पुटं वहन्तः आसन्, विशेषरेलयानैः, बसयानैः च महत्त्वपूर्णसङ्ख्यायाः…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 99 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 57 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 46 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 40 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 54 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 78 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page