

देहरादून/वार्ताहर:। उत्तराखण्डे एकस्य पश्चात् अन्यस्य हेलिकॉप्टरदुर्घटनानां अनन्तरं सर्वकारः कार्ये आगतः। राज्ये हेलिकॉप्टरसञ्चालनार्थं मानक सञ्चालन प्रक्रिया निर्मातुं निर्णयः कृतः अस्ति। एतदर्थं गृहसचिवस्य अध्यक्षतायां १० सदस्यीयसमितिः निर्मितः अस्ति। एषा समितिः हेलिकॉप्टर दुर्घटनानां विषये गहनं अध्ययनं करिष्यति।तदनन्तरं १५ अगस्तपर्यन्तं विस्तृतं प्रतिवेदनं निर्माय सर्वकाराय प्रस्तूयिष्यते। सर्वकारी स्तरस्य अधिकारिणः सहितं बहवः विशेषज्ञाः अस्मिन् १० सदस्यीय समित्याम्समाविष्टाःसन्ति।यस्मिन् आपदा प्रबन्धनम्, डीजीसीए महानिदेशकः, विमानदुर्घटना अन्वेषण ब्यूरो, मौसमविभागः, वायुक्षेत्रयातायात प्रबन्धनस्य कार्यकारी निदेशकः च सन्ति। डीजीसीए, यूकेडीए च नामाज्र्तिाः हेलीसेवासञ्चालकाः, पायलट् च तस्मिन् सदस्यत्वेन नामाज्र्तिाः सन्ति। के स्वस्वक्षेत्र विशेष्ज्ञत्वेनसर्वेषांबिन्दुनाम् गहनं अध्ययनं करिष्यति। एषा समितिः हेलिकॉप्टरदुर्घटनानां कारणानां विश्लेषणं करिष्यति। भविष्ये दुर्घटना निवारणाय प्रतिवेदनमपि निर्मास्यति। समितिः नागरिक विमान विकास प्राधिकरणे मानव संसाधनस्य, उपकरणानां, प्रशासनिक सुधारस्य च सुझावं दास्यति। एतस्य अतिरिक्तं पूर्वं निर्मितस्य एसओपी इत्यस्मिन् संशोधनस्य विषये अपि च मौसमसम्बद्धसूचनानाम् संचार व्यवस्थायाः सुदृढीकरणस्य विषये समितिः स्वमतं दास्यति। एतेन सह राज्ये विमानयान व्यव स्थापनं कथं सुदृढं कर्तुं शक्यते इति विषये अपि सुझावः प्रदत्ताः भविष्यन्ति। एतादृशानां सर्वेषां पक्षानाम् अध्ययनं कृत्वा एषा समितिः अगस्तमासस्य १५ दिनाज्र्पर्यन्तं सर्वकाराय स्वप्रतिवेदनं प्रस्तौति।