


देहरादून/वार्ताहर:। अन्ताराष्ट्रिय योगदिवसस्य पूर्वं उत्तराखण्डे सज्जताः पूर्णतया आरब्धाः सन्ति। अस्मिन् वर्षे योगदिने द्वौ प्रमुखौ कार्यक्रमौ आयोज्यते प्रथमः कार्यक्रमः देहरादूनस्य पुलिसरेखायां भविष्यति यस्मिन् राष्ट्रपतिः द्रौपदी मुर्मूः भागं गृह्णीयात्। उत्तराखण्डस्य ग्रीष्मकालीन राजधानी गैरसैननगरे योगदिवसस्य द्वितीयः प्रमुखः कार्यक्रमः आयोजितः भविष्यति। यस्मिन् मुख्यमन्त्री पुष्करसिंहधामी सहित अनेकदेशानां राजदूताः भागं गृह्णन्ति। तस्मिन् एव काले योगदिवसात् पूर्वं मुख्यमन्त्री पुष्करसिंहधामी पत्नी गीताधामी, उभौ बालकौ च सह योगाभ्यासं कृत्वामहत् सन्देशं दत्तवान्। अस्मिन् काले मुख्यमन्त्री कार्यालयस्यअधिकारिणः,कर्मचारी च योगं कृतवन्तः। अस्मिन् अवसरे मुख्यमन्त्री राज्यस्य जनानां कृते आह्वानं कृतवान् यत् ते योगं नियमित कार्यक्रमस्य भागं कुर्वन्तु। मुख्यमन्त्री उक्तवान् यत् योगः केवलं शारीरिक व्यायामः एव नास्ति, अपितु आन्तरिक शान्तिस्य आत्म साक्षात्कारस्य च प्रक्रिया अस्ति। अस्माकं मनः स्थिरं कर्तुं चैतन्यस्य गभीरं प्राप्तुं च माध्यमम् अस्ति। सः अवदत् यत् भारतेन मानवमूल्यानि सर्वदा सर्वोपरि स्थापितानि, योगः अस्माकं सनातन संस्कृतेः मूलस्तम्भः अस्ति। एतदेव कारणं यत् अद्यत्वे योगः विश्वस्य कोटिजनानाम् दैनन्दिन कार्यक्रमस्य अभिन्नः भागः अभवत्। मुख्यमन्त्री उक्तवान् यत् २०१४ तमे वर्षे प्रधानमन्त्री नरेन्द्रमोदी संयुक्त राष्ट्रसङ्घस्य महा सभायां योगं अन्ताराष्ट्रिय दिवस रूपेण मान्यतां दातुं प्रस्तावम् अयच्छत्, यस्य समर्थनं १७७ देशैः कृतम्। तदनन्तरं २१ जून दिनाज्र्ः अन्तर्राष्ट्रीय योगदिवसः इति घोषितः। सः अवदत् यत् उत्तराखण्डं योगऋषि भूमिः अस्ति। ग्रामस्तरस्यसर्वेषांयोगेन सह सम्बद्धतायै सर्वकारेण प्रयत्नाःकृताः। योगद्वारा रोजगारस्य अवसराः वर्धिताः सन्ति। उत्तराखण्डं योगस्य कल्याणस्य च वैश्विक राजधानीं कर्तुं नूतना योगनीतिः आनीता अस्ति।






