आचार्यदीनदयालशुक्ल:/बाँदा। अद्य महता वैभवेन संस्कृत दिवस श्रावणी महोत्सवस्य समारोहः समायोज्यत। संस्कृत सप्ताहान्तर्गतं समाचर्यमाणेषु कार्यक्रमेष्वद्य चतुर्थे दिवसे संस्कृतभारती एवं श्रीवामदेवसंस्कृत महाविद्यालय: बांदा इत्यनयोः संयुक्ततत्वाव धाने ‘संस्कृतदिवस एवं श्रावणी उपाकर्म’ चाचरित:। श्रीवामदेव संस्कृत महाविद्यालयस्य अन्तेवासि भिस्स विद्यालयाचार्यै: कर्णावती तटे श्रावणीपर्व: आचरितः। तत्र प्रामुख्येन महाविद्यालयस्य प्राचार्यः डॉ. नरवदे नारायण दीक्षित: समुपस्थाय पर्वणः विषये बटव: प्रबोधिताः। तेनोक्तं यत् श्रावणी उत्सवः वैदिककालात् एव शरीरस्य, मनसः, इन्द्रियाणां च शुद्धतायाः पवित्रः उत्सवः इति मन्यते इति उक्तवान्। अस्मिन् उत्सवे क्रियमाणानां सर्वेषां कार्याणां मूलविचारः अस्ति यत् मनुष्यस्य पूर्वं ज्ञाताज्ञातानां च दुष्कृतानां प्रायश्चित्तीकरणं भविष्ये सत्कर्मणां प्रेरणा च भवति। द्विजद्विज्त्वयोः विषये व्याख्याय सः अवदत् यत् अत्र द्विजसम्बोधनं कस्यापि जातिविशेषस्य वा वर्गस्य वा विशेषस्य कृते नास्ति, तत्तु विशेषणम् एव। उच्चतमस्य जीवनसाधनायाः सफलस्य साधकस्य पर्यायः अस्ति। अस्माकं सार्थकप्रयत्नाः अस्मान् उच्चस्तरीय प्रगतेः योग्यतां कर्तुं शक्नुवन्ति। कार्यक्रम के संयोजकत्वेन महाविद्यालयस्य वरिष्ठचार्य: तथा संस्कृतभारत्या: सहप्रान्तमन्त्रि: डॉ. रत्नेश कुमारत्रिवेदी छात्रान् वैदिकमन्त्रेभ्य: दशविध स्नानं, संकल्प:, प्रायश्चितं, तर्पणादि संस्कारान् कारितवान्। अस्मिन् अवसरे बाँदायाः साथी संस्कृत महाविद्यालयस्य पूर्वप्रधानाध्यापकः आचार्यरमेश द्विवेदी,आचार्यब्रह्मदत्तत्रिवेदी,श्रीमान् आनन्दबाजपेयी, डॉ. बलरामत्रिपाठी, डॉ.जानकीशरण शुक्लश्च उपस्थिताः आसन्। कार्यक्रमे महाविद्यालयस्य आचार्या: डॉ. इच्छाराम पाठक:, अभय कुमार पाण्डेय:, श्रीमान अजय प्रताप सिंह: एवं वरिष्ठछात्रेषु वेदप्रकाश त्रिपाठी, अर्जुनतिवारी, सक्षम तिवारी, सूर्यप्रकाश:, शरदचन्द्रशुक्ल, सहित महाविद्यालय परिसरस्य समेऽपि आचार्याः विद्यार्थिनश्च समुपस्थिताः आसन्।






