संस्कृताध्ययनकेन्द्रस्य शुभारम्भः , संस्कृत भाषण शिविरस्य समारोहः , गीताजयन्ती उत्सवकार्यक्रमः च एते त्रयः कार्यक्रमाः सुसम्पन्नाः जाताः

( संवादक:- प्रवेशकुमारशुक्ल:, गुजरातम्) संस्कृताध्ययनकेन्द्रं जी. डी. मोदी कालेज ऑफ आर्ट्स इत्यस्मिन् महाविद्यालये केन्द्रीयसंस्कृतविश्वविद्यालः नवदेहली द्वारा सञ्चालितमस्ति। संस्कृताध्ययनकेन्द्रे प्रमाणपत्रीय-पाठ्यक्रमः, दक्षतापाठ्यक्रमः च प्रचलति। संस्कृताध्ययनकेन्द्रस्य शुभारम्भः , संस्कृत भाषणशिबिरस्य समारोहः, गीताजयन्ती उत्सवकार्यक्रमः च एते त्रयः कार्यक्रमाः सुसम्पन्नाः जाताः। कार्यक्रमस्य आरम्भे मंगलाचरणं प्ररेणाभगिनी अकरोत्। एतस्य अनन्तरं डॉ. सुरेखाबेन-पटेलः सर्वेषाम् अतिथीनां परिचयं कारितवती। कार्यक्रमस्य सञ्चालनं संस्कृताध्ययन केन्द्रस्य प्रशिक्षकः हरिश्चन्द्रमहोदयः अकरोत्। कार्यक्रमस्य अध्यक्षता रूपेण जी.डी मोदी इति महाविद्यालयस्य प्राचार्या डॉ राधाबेनमहोदया आसीत्।महोदयया उक्तं यत् संस्कृतभाषा सर्वासां भाषाणां जननी वर्तते, संस्कृत सम्भाषणस्य महत्त्वं, संस्कृताध्ययन केन्द्रस्य उद्देश्यं, संस्काराणां मूल्यं, भारतीयसंस्कृतेः विशेषताः च एतेषां विषये अस्मान् सर्वान् बोधितवती एवञ्च संस्कृतभाषा सर्वेषां भाषा इति जय घोषं कृतवती। कार्यक्रमस्य मुख्यातिथिरूपेण महाविद्यालयस्य राजनीति विभागस्य अध्यक्षः डा. सोहनभाई दवे आसीत्। महोदयेन उक्तं यत् संस्कृत भाषा केवलं पाठ्यक्रमी भाषा भवेत् एषा भाषा व्यवहारिकी भाषा भूयात् एवञ्च संस्कृतभाषा नैतिकजीवने बहु-महत्त्वपूर्णा भाषा वर्तते । अस्मिन् कार्यक्रमे बहवः छात्राः भागं ग्रहीतवन्तः तथा च श्रीमद्भवतगीताविषये स्वस्य विचारान् प्रकटितवन्तः।मानसी, मानवः, नेहलभगिनी, जीनलभगिनी, मानसी, कशीश भगिनी, भूमिः ,अनाली च एतषां द्वारा गीतायाः प्रस्तुतयः जाताः। जी. डी.मोदी कालेज ऑफ आर्ट्स इत्यस्मिन् महाविद्यालये संस्कृताध्ययन केन्द्रस्य प्रशिक्षकः हरिश्चन्द्रः वर्तते। कार्यक्रमस्य सहसंयोजिका डॉ. जीनकीबेनपटेलः सर्वेषाम् अतिथीनां छात्राणाञ्च आभारं ज्ञापितवती। कार्यक्रमेप्रार्चायाराधाबेनपटेलः,संयोजिका डॉ. सुरेखाबेन पटेलः , डॉ. विजयमहोदयः , डॉ. जानकीबेनपटेलः इत्यादः उपस्थिताः आसीन्। कार्यक्रमे १५० छात्राः उपस्थिताः आसन्। कार्यक्रमस्य शान्तिमन्त्रेण समापनं।

  • editor

    Related Posts

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    देहरादून/वार्ताहर:। हरिद्वारनगरे देवसंस्कृति विश्वविद्यालयेन आयोजिते ध्वजारोहण समारोहे मुख्यमन्त्री पुष्करसिंह धामी, केन्द्रीय संस्कृति पर्यटन मन्त्री गजेन्द्रसिंह शेखावतः च भागं गतवन्तौ।वक्तारः गायत्री परिवारस्य शताब्दी समारोहं भारतीय संस्कृतेः,सेवायाः, आध्यात्मिक व्यवहारस्य च पुन र्जागरणस्य…

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    आनन्द शुक्ल। २०२६ तमे वर्षे बीएमसी-निर्वाचने भाजपा-शिवसेना-सङ्घटनेन ऐतिहासिकं विजयं प्राप्तम्, एकैकंबृहत्तमं दलं रूपेण उद्भूतम्। एतेन विजयेन ठाकरे-परिवारस्य दशक त्रयपर्यन्तं कृतं वर्चस्वं समाप्तं भवति। बीएमसी-मध्ये २२७ वार्डेषु बहुमतस्य अंकः ११४ अस्ति,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 95 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 54 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 44 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 38 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 50 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 72 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page