संस्कृताचरणे कण्वाश्रमे उपनयनं, भव्यशोभायात्रा

कुलदीपमैन्दोला। कोटद्वारं। श्रावण्यां पूर्णिमायां तिथौ विश्वसंस्कृतदिवसस्य च पावनेऽवसरे कोटद्वार नगर समीपे महर्षि कण्वस्य पुण्यतमे आश्रमे पावनमालिन्या नद्यास्तटे परमार्थवैदिक गुरुकुले नूतन वटूनामुप नयन संस्कारः शास्त्रविधिना सुसम्पन्नोऽ भवत्। अयं महोत्सवः संस्कृत भारत्याः संस्थाया स्तत्त्वावधाने समायोजितः। अस्य पावन स्यानुष्ठानस्य सञ्चालनं गुरुकुलस्य प्रधानाचार्येण नौटियालमनमोहनेन कृतम्। अस्मिन् मङ्गलावसरे पूज्यगुरु महाराजाश् िचदानन्द मुनयः सर्वेभ्यो ब्रह्मचारिभ्यो गुरुमन्त्रं प्राददुः तेषां जीवने गुरुमन्त्रस्य महत्त्वं च विस्तरेण प्राकाशयन्। सनातनधर्मे वर्णितानां चतुर्णाम् आश्रमाणां गरिमाणं वर्णयन्तः ते विशेषेण ब्रह्मचर्या श्रम स्यादर्शेषु अनुशासने च बलं ददुः। अभिभावका नाम् आचार्याणां च पवित्रे सान्निध्ये सम्पन्नस्यैतस्य संस्कारस्यानन्तरं संस्कृत भाषाया गौरवं महत्त्वं च प्रकाशयितुं विविधाः कार्यक्रमा आयोजिताः। संस्कृत भारत्या मार्ग दर्शनेन छात्रैः श्रीमद्भगवद्गीतायाः श्लोकाः सुमधुरं समुच्चारिताः। ततः परं ब्रह्मचारिभिः संस्कृत भारत्या विभाग सह संयोजकेन मैन्दोला कुलदीपेन सह रेलगानं सरसा भाषा संस्कृतम् इत्यादीनि गीतानि भावपूर्णमगायन् येन समग्रं वातावरणं संस्कृतमयं सञ्जातम्। गुरुकुलस्य पूर्व प्रधानाचार्यः कुकरेति रमाकान्तः स्वसम्बोधनेऽकथयत् यत् संस्कृतं सर्वासां भाषाणां जननी अस्ति अस्याः संरचना च अतीव वैज्ञानिकी तर्कसङ्गता च वर्तते। गैप्स नाम्न्याः संस्थायाः संस्थापकः काला महोदयो मनमोहनः बालकान् आधुनिक वैज्ञानिक दृष्ट्या संस्कृतभाषाया वैशिष्ट्यानि उपयोगितां च विषये प्रेरकां वार्ताम् अश्रावयत्। अस्मिन्कार्यक्रमे विद्यालयस्य आचार्याः सुभाषः रावतश्च विभाग संयोजकः ध्यानी पज्र्जः नैथानी सिद्धार्थः रावत शुभमः इत्याद योऽनेके मान्याः जनाः समुपस्थिता आसन्। सम्पूर्णेऽस्मिन्नायोजने अध्यात्म संस्कार भाषा प्रेम्णा मद्भुतः सङ्गमः दृष्टः येन विश्व संस्कृत दिवसस्य आयोजनमिदं वस्तुतः सार्थकं सञ्जातम्

  • editor

    Related Posts

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    शम्भूनाथ त्रिपाठा/प्रयागराज:। रविवासरेमाघ मेलायाःबृहत्तमःउत्सवः’मौनीअमावस्या’इति विश्वासस्य एतादृशः अपूर्वः समुद्रः दृष्टः यत् विश्वस्य अत्यन्तं विकसित राष्ट्राणि आधुनिकमहानगराणि च अपि संगमस्यवालुकाभिः बौनारूपेण दृश्यन्तेस्म एकस्मिन् दिने एव ४ कोटिभ्यः अधिकाः भक्ताः संगमतटेषु डुबकीं कृतवन्तः।…

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    नवदेहली। भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्। निर्वाचनप्रक्रियायां भागं ग्रहीतुं सर्वे भाजपा मुख्यमन्त्रिणः, राज्य-एककानां प्रमुखाः, अन्ये च प्रमुखाः नेतारः दलस्य मुख्यालये एकत्रिताः भविष्यन्ति। नबीनः दलस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 97 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 56 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 45 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 39 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 53 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 78 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page