संस्कृतम् अस्माकम् आनुवंशिकसूत्रेषु निहितम् अस्ति-गौरवशास्त्री

धीरज मैथानी/देहरादूनम्। संस्कृतभारती देहरादूनम् इत्यनेन ‘गेहे-गेहे संस्कृतम्’ इत्यभियानान्तर्गते जनकल्याणन्यासे, सुमननगरे, धर्मपुरे, देहरादूनमहानगरे अद्य सायं ४:३० तः ७:०० पर्यन्तं महता वैभवेन संस्कृतसप्ताहसमारोपः सम्पादितः। कार्यक्रमस्य शुभारम्भः अतिथिभिः दीप प्रज्वलनेन, आयुर्वेद महाविद्यालयस्य हर्रावाला देहरादून स्थितस्य छात्रच्छात्राभिः-प्रीति, आयुषी, सृष्टि, सिमरन, खुशी, शैलजा-इत्येताभिः प्रस्तुतया सरस्वतीवन्दनया च अभवत्। ध्येयमन्त्रपाठं डॉ बीना पुरोहितः कृतवती। कार्यक्रमस्य द्रष्टा, प्रष्टा, स्रष्टा च संस्कृतभारतीदेहरादूनस्य जनपदमन्त्री डॉ. प्रदीपः सेमवालः आसीत्, येन अतिथिपरिचयः स्वागतभाषणं च प्रस्तुतम्। तेन उक्तं यत् ‘संस्कृतस्य जन-जन-पर्यन्तं प्रसारः अत्यावश्यकः, एषा भाषा अस्माकं संस्कृतेः जीवनप्रवाहः, अनया विना राष्ट्रियास्मिता अपूर्णा भवति।’ विशिष्टः अतिथिः समाजसेवी एल्. एल्. पाल् इत्येषो भाषायाः सामाजिक चेतनायां भूमिकां प्रकाशयन् उक्तवान् यत् ‘संस्कृतं केवलं भाषा नास्ति, अपितु जीवनं नैतिकमूल्यैः समृद्धीकर्तुं साधनम्। एतेषु आयोजनेषु नूतन संततिमध्ये भाषां प्रति आत्मीयभावना जागर्ति।’
सारस्वतातिथिः डॉ. नवीनः जोशी (प्राचार्यः, श्रीमहादेव गिरिः संस्कृत महाविद्यालयः, हल्द्वानी, पूर्वः शिक्षक संघप्रबोधन प्रमुखः) अवदत् यत् ‘संस्कृत साहित्ये निहितं ज्ञानं विज्ञानं च अद्यापि आधुनिक समाजाय पथप्रदर्शनं करोति। विद्यार्थिषु मम आग्रहः यत् ते संस्कृतं केवलं विषयत्वेन न स्वीकुर्वन्तु, अपि तु जीवनशैलीत्वेन चिन्वन्तु। मुख्यः अतिथिः श्री गौरवः शास्त्री (प्रान्त संघटन मन्त्री, उत्तराञ्चलम्) संस्कृतस्य पुनरुत्थानं राष्ट्रस्य सांस्कृतिक पुनरुत्थानेन सम्बद्धम् अकरोत्। सः अवदत् यद् ‘गेहे-गेहे संस्कृतम्’ अभियानस्य उद्देश्यं प्रत्येकं गृहं संस्कृत संवादस्य केन्द्रं कर्तुम् अस्ति, येन सामाजिकैक्यं सांस्कृतिक गौरवञ्च उभयं सुदृढी भवेत्, यतः संस्कृतम् अस्माकम् आनुवंशिक सूत्रेषु निहितम् अस्ति।
अतिविशिष्टः अतिथिः आचार्यः विजयेन्द्र प्रसादः ममगाईं (अध्यक्षः, उत्तराखण्डविद्वत्सभा) अवदत् यत् ‘संस्कृतं केवलं भारतस्य न, अपि तु सम्पूर्णमानव जातेःनिक्षेपः अस्ति। अस्याः माध्यमेन विश्वबन्धुत्वस्य वैचारिकैक्यस्य चसन्देशःप्रसारितुंशक्यते। उत्तराखण्ड विद्वत्सभायाः ध्येयवाक्यमपि ‘वसुधैव कुटुम्बकम’ इति अस्ति। ’अध्यक्षीय भाषणंडॉ. रामभूषण विजल्वाणः (जिलाध्यक्षः, संस्कृतभारती देहरादूनम्) दत्तवान्। तेन विदुषा भाषितं यद् एतत् आयोजनं संस्कृत भाषायाः संरक्षणाय संवर्धनाय प्रचाराय च समाजम् एकत्र समाहर्तुं प्रयासः अस्ति।’ सः सर्वान् आगृहीतवान् यत् ते स्वगृहे प्रतिदिनं संस्कृत भाषणस्य परम्परां प्रारभन्ताम्। मञ्चस्य कुशलं सञ्चालनं पूर्वः पूर्ण कालिकः विशालः प्रसादः भट्टः अकार्षीत्। संस्कृत सप्ताहस्यआयोजनाय तस्य अनुपमा भूमिका अवर्तत। धन्यवादज्ञापनं डॉ. नवीनः जसोला (सहविभाग संयोजकः),मार्गदर्शनं योगेशः कुकरेती (गीता शिक्षण प्रमुखः), चित्रांकनं डॉ. आनन्द मोहनः जोशी (खण्ड संयोजकः, डोईवाला) च कृतवन्तः। सांस्कृतिक कार्यक्रमाणां शृङ्खला अपि सह प्रवहिता। वैद्यकीय विद्यार्थिभिः अक्षय, भूमिका, प्रेरणा, दीक्षा, सृष्टि च इत्येभिः स्वागतगीतं प्रस्तुतम्। श्रद्धा नाम्नी भावपूर्णं नृत्यम् अकरोत्। वैष्णव्याः (डॉ. बीना पुरोहितस्य पुत्री)नृत्यं दर्शकेषु अतीव प्रियम् अवर्तत। हिमालयीय चिकित्सा महाविद्यालयस्यफतेहपुर-डोईवाला देहरादूनस्य च विद्यार्थिभिः चंचल, आदर्श, आदित्य, वासुदेव इत्येतैः आकर्षकं नाट्यप्रदर्शनं कृतम्।
सर्वेभ्यः प्रतिभागिभ्यः कार्यकर्त्रा आचार्येण विकास भट्टेन उत्साहवर्धनार्थं लेखनी प्रदत्ता। धराली आपदायां दिवङ्गतेभ्यश्श्रद्धाञ्जलिं दत्त्वा शान्तिमन्त्रपाठं धीरजः मैठाणी (संपर्कप्रमुखः) विहितवान्। कार्यक्रमे व्यवस्थायां रायपुरखंड संयोजको नीतीश मैठाणी, पूर्वः सहसपुर खंड संयोजकः धीरजविष्टः, कार्यकर्ता अजय नौटियालः च सक्रियाः आसन्। अस्मिन् अवसरे विशेष रूपेण उपस्थिताः आसन् तत्र डॉ. सतीशः नौटियालः, प्रशान्तः कैडियालः, अमेरिका वास्तवः (सॉफ्टवेयर अभियन्ता), हरिदत्तः व्यासः (प्रधानाचार्यः), डॉ. महेशदत्तः उनियालः, राजप्रिन्सः पुण्डीरः (वायुसैन्य निवृत्तः), सीमा कुकरेती, वन्दना सेमवालः, जीवनलता कैडियालः, सोनाली मैठाणी, मोनिका मैठाणी, आद्विकः मैठाणी, नव्या, नव्यांशः मैठाणी, डॉ. रिंकु च। अयं समारोहः संस्कृतभाषायाः प्रचारप्रसारे एकः महत्वपूर्णः पादः सिद्धः, यस्मिन् सर्वे सक्रियतया सहभागिनोऽभवन्।

  • editor

    Related Posts

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    शम्भूनाथ त्रिपाठा/प्रयागराज:। रविवासरेमाघ मेलायाःबृहत्तमःउत्सवः’मौनीअमावस्या’इति विश्वासस्य एतादृशः अपूर्वः समुद्रः दृष्टः यत् विश्वस्य अत्यन्तं विकसित राष्ट्राणि आधुनिकमहानगराणि च अपि संगमस्यवालुकाभिः बौनारूपेण दृश्यन्तेस्म एकस्मिन् दिने एव ४ कोटिभ्यः अधिकाः भक्ताः संगमतटेषु डुबकीं कृतवन्तः।…

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    नवदेहली। भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्। निर्वाचनप्रक्रियायां भागं ग्रहीतुं सर्वे भाजपा मुख्यमन्त्रिणः, राज्य-एककानां प्रमुखाः, अन्ये च प्रमुखाः नेतारः दलस्य मुख्यालये एकत्रिताः भविष्यन्ति। नबीनः दलस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 96 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 55 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 45 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 39 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 53 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 77 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page