संस्कृतभारत्या: आवासीय प्रबोधनवर्ग: सफलतया सम्पन्नः-संस्कारेण, समर्पणेन च संस्कृतेन राष्ट्रनिर्माणस्य अनुपमदर्शनम्

कुलदीपमैन्दोला/मेरठं। संस्कृतभारती-पश्चिमोत्तर प्रदेश क्षेत्रस्य बालेरामब्रजभूषण सरस्वती शिशुमन्दिरे, शास्त्री नगर मेरठमध्ये ‘आवासीय प्रशिक्षण वर्गस्य’ समापन समारोह: भव्यरूपेण सफलतया सम्पन्नः। अयं वर्ग: केवलं संस्कृत भाषायाः प्रचार प्रसाराय न, अपि तु भारतीय संस्कृतेः, संगठन कार्यपद्धतेः, च संस्कृत्या राष्ट्रनिर्माणस्य च गम्भीर विषयेभ्यः समर्पित: आसीत्।
अस्मिन् सन्दर्भे मेरठ-ब्रज-उत्तराखण्ड प्रान्तेभ्यः आगतानां समर्पित कार्यकर्तृणां प्रेरणादायिनी उपस्थिति: सम्पूर्णं वातावरणं हर्षपूर्णं ऊर्जायुतं च कृतवती। ८ जून २०२५ तः आरभ्य २१ जून २०२५ पर्यन्तं चलिते अस्मिन् वर्गे २२ स्थलेभ्यः आगता: १०५ जना: संस्कृत भाषायां संवादं कर्तुं नियमितम् अभ्यासं कृतवन्तः। प्रातःकाल चतुर्वादनात् आरभ्य रात्रौ दशवादन पर्यन्तं सततं संस्कृत भाषायां भाषणं शिक्षणं च प्रशिक्षणा र्थिभिः कृतम्। अस्मिन् वर्गे शिक्षक रूपेण प्रभाकरमणि त्रिपाठी, गिरीशतिवारी, कुलदीपमैन्दोला, तरुण:, गण शिक्षकः आकाश:, रंगराजन:, विनीत:, रुद्र:, सन्तोष:, अंकित:, वीरेन्द्र:, नीलकमल:, पूनमवर्या, राजमणिः, नीरज:, सन्दीप कुमार:, अर्जुन: इत्येते शिक्षायै च व्यवस्थायै च सहयोगं कृतवन्तः। वर्गस्य मार्गदर्शनार्थं संस्कृत भारत्याः विभिन्न पदाधिकारिण: समये समये आगत्य विविधेषु विषयेषु स्वविचारं प्रस्तुतवन्त:। एकता-विषये श्रीशदेवपुजारी-महोदयः सारगर्भितं भाषणं कृत्वा अवदत्-‘एकता एव समाजस्य शक्ति:। संस्कृत भाषा अस्याः एकतायाः आधाररूपेण वर्तते।’ संगठन-कार्य विषये जयप्रकाश-महोदयेन उक्तम्- ‘संगठनेनैव समाजस्य उत्थानं साध्यते। यदा वयं संगठिताः भवाम:, तदा राष्ट निर्माणस्य प्रक्रिया सुदृढा भवति।’ योग-विषये प्रेमचन्द्रशास्त्री-महोदयेन उक्तं-‘योगः भारतीयसंस्कृतेः अमूल्यं दानम् अस्ति। सः केवलं शारीरिकव्यायामः न, अपि तु आत्मा-परमात्मन: मिलनस्य मार्गः अपि अस्ति।’ संस्कृतस्य महत्वे श्रीराम-महोदयेन निगदितम्’संस्कृतं केवलं भाषा न, अपि तु भारतस्य चेतना च विज्ञानस्य मूलधारा च अस्ति। अस्याम् एव विज्ञानम्, गणितम्, व्याकरणम्, चिकित्सायाः ज्ञानम्, तथा आध्यात्मिक विचाराः अपि समाहिताः सन्ति।’समापन-सत्रे अखिलभारतीय-शिक्षणप्रमुखः श्रीराम-महोदयः प्रेरणादायकं भाषणं दत्त्वा उक्तवान्-‘संस्कारैः, समर्पणेन च संस्कृतभाषया सह राष्ट्रस्य च विश्वस्य च कल्याणं सम्भाव्यते। एषा भाषा अस्मान् स्वमूलम् उपनयति, जीवनं च सुसंस्कृतं करोति। ‘वर्गे क्षेत्रीय-संगठनमन्त्री श्रीदेवेन्द्र पण्ड्या-महोदयेन कार्यकर्तन् सम्बोध्य एवमुक्तम्-‘संस्कृतभाषा केवलं भाषा न, किन्तु भारतस्य आत्मा एव। अस्याः पुनरुत्थानेन राष्ट्रस्य वास्तविकम् उत्थानम् सम्भवम्।’ कार्यक्रमस्य गरिमावृद्ध्यर्थम् संस्कृत भारत्याः मेरठ-प्रान्त-अध्यक्षः आचार्यः श्रीवाचस्पतिमिश्र-महोदयः, प्रान्त-संगठनमन्त्री (मेरठत:) श्रीयोगेश विद्यर्थी-महोदयः, प्रान्त-संगठनमन्त्री (उत्तराखण्डत:) श्रीगौरव शास्त्री-महोदयः, व्रजप्रान्तत: गौरव:, वर्गाधिकारी श्रीराजगोपालकात्यायन वर्य:, प्रशिक्षण प्रमुखः श्रीरामः महोदयः च अपि स्वविचारान् प्रस्तुतवान्। अस्मिन् विशेषसन्दर्भे प्रधान-आर्यसमाज-मेरठत:- श्रीराजेश सेठीवर्य:, वरिष्ठ-चिकित्सकः डॉ. विश्वजीत्-बैम्बी, मेरठ-दक्षिण-संयोजकः श्रीराहुलगुप्त-महोदयः, मण्डल-अध्यक्षः श्रीललित-मोरल-महोदयः, श्रीआकाश शर्मा-महोदयः, श्रीनरेन्द्र कुमार-महोदयः, डॉ.अरविन्दनारायण-महोदयः अन्ये च बहवः गणमान्य-नागरिकाः समाजसेविनश्च सादरम् उपस्थिताः आसन्।

  • editor

    Related Posts

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    शम्भूनाथ त्रिपाठा/प्रयागराज:। रविवासरेमाघ मेलायाःबृहत्तमःउत्सवः’मौनीअमावस्या’इति विश्वासस्य एतादृशः अपूर्वः समुद्रः दृष्टः यत् विश्वस्य अत्यन्तं विकसित राष्ट्राणि आधुनिकमहानगराणि च अपि संगमस्यवालुकाभिः बौनारूपेण दृश्यन्तेस्म एकस्मिन् दिने एव ४ कोटिभ्यः अधिकाः भक्ताः संगमतटेषु डुबकीं कृतवन्तः।…

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    नवदेहली। भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्। निर्वाचनप्रक्रियायां भागं ग्रहीतुं सर्वे भाजपा मुख्यमन्त्रिणः, राज्य-एककानां प्रमुखाः, अन्ये च प्रमुखाः नेतारः दलस्य मुख्यालये एकत्रिताः भविष्यन्ति। नबीनः दलस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 97 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 55 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 45 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 39 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 53 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 78 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page