देहरादून। पंचायतीमन्दिरम् -गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः।या स्वयं पद्मनाभस्य मुखपद्मात् विनिःसृता इत्येषा श्रुतिप्रसिद्धा श्रीमद्भगवद्गीता यस्याः समुद्भवतिथिम् आधृत्य संस्कृत भारत्याः कार्यकर्तृभिः घोषीगलीत्यत्र अवस्थिते पंचायतीमन्दिरेसामूहिकंगीतापारायणंसम्पादितम्।कार्यक्रमस्यशुभारम्भः दीपप्रज्वलनेन गीतापूजनेन जातः। विभागसंयोजको नागेन्द्रव्यासः जनपदमन्त्री प्रदीप सेमवालश्च अवदतां यत् नवंबरमासे कोयंबटूरनगरे समायोजिते अखिल भारतीयाधिवेशने दैनन्दिनजीवने गीता स्वाध्यायस्य कृते महान् आग्रहः प्रकटितः। प्रतिदिनं द्वौ श्लोकौ पठित्वा पाठयित्वा च वर्षपर्यन्तं समग्रा गीता कण्ठस्थीकर्तुं शक्यते इति। गीता शिक्षण प्रमुखः योगेशकुकरेती प्रास्ताविकं भाषणं कृत्वा आगामियोजनासु गीता प्रतियोगितायाः आयोजनं प्रस्तावितवान्। अस्मिन् अवसरे संपर्कप्रमुखः धीरजमैठाणी खण्डसंयोजकः डॉ आनंदजोशी सहखण्डसंयोजिका बीना पुरोहित तथा कार्यकर्तृवर्गे विकास भट्टः आचार्य नौटियालः इत्यादयः अन्ये च समाजसेविनः गीतानुरागिणः जनाः सानन्दं समुपस्थिताः।






