आचार्यदीनदयालशुक्ल:/बांदा ।। अद्य पञ्चविंशत्युत्तरद्वि सहस्रतमे कृष्टाब्दे द्वादशमासस्य प्रथमदिनाङ्के सोमवासरे बान्दानगरे कानपुर प्रान्तसंस्कृत भारत्याः श्रीवामदेवसंस्कृतमहाविद्यालयस्य च संयुक्त प्राबन्ध्येन श्रीमद्भगवद्गीताजयन्त्याः कार्यक्रमायोजनं समपद्यत। कार्यक्रमस्य समारम्भः मङ्गलाचरणेन दीप प्रज्वालनेन च अभवत्। आदौ गुरुकुलस्य छात्राः वैदिकं मङ्गला चरणं चक्रुः। तदनन्तरं विद्यालयस्य प्रधाना ध्यापकेन डॉ॰नरवदेनारायणदीक्षितेन संस्कृत भारत्याः प्रान्तमन्त्रिणा डॉ. रत्नेशत्रिवेदिना च दीपः प्राज्वाल्यत। विद्यालयस्य सर्वैः वटुभिः शिक्षकैश्च श्रीमद्भगवद्गीतायाः द्वादशाध्यायस्य पारायणं व्यधायि। पुनश्च विद्यालयस्य वरिष्ठप्राध्यापकः डॉ॰इच्छारामपाठक: श्रीमद्भगवद्गीतायाः माहात्म्यं प्राकाशयत्। डॉ॰मनोजमहोदया छात्रान् श्रीमद्गीतां स्वजीवने अवतारयितुं प्रैरयत्। मुख्यवक्तृरूपेण व्याकरणविभागाध्यक्षः डॉ॰त्रिवेदीरत्नेशः श्रीमद्भगवद्गीतां जीवनप्रबन्धनं निगदन् जीवनशैल्याः विविधानि सूत्राणि व्याकरोत्। सः अकथयत् यत् श्रीमद्भगवद्गीता अस्मभ्यं जीवनस्य प्रत्येकस्मिन् मार्गे जीवनकलां शिक्षयति। श्रीमद्भगवद्गीता केवलं धार्मिकग्रन्थः न अपि तु मानवजीवनस्य कुञ्चिकारूपेण भगवता स्वयं स्वमुखात् प्रोक्ता अस्माकं सर्वेषां समक्षं प्रस्तुता। अद्य अस्माभिः स्वयं स्वसन्तानाश्च न केवलं गीतां पठितुम् अपि तु तां जीवने धारयितुं प्रेरणीयाः। यथा भगवान् श्रीकृष्णः अर्जुनं स्वकर्मणि प्रैरयत् तथैव सुखदुःखयोः समभावं रक्षितुं श्रीमद्भगवद्गीता अस्मभ्यं प्रेरणाम् प्रयच्छति। सम्पूर्णे कार्यक्रमे सर्वेषां शिक्षकाणां छात्राणां च सहयोगः आसीत्। अस्मिन् अवसरे विद्यालयस्य सर्वे शिक्षकाः अजयकुमारसिंह: आचार्यपाण्डेयअभयकुमारः, विकास:, शरद:, सूर्यप्रकाश:, इत्यादयः सर्वे विद्यार्थिनः कर्मचारिणः जनप्रतिनिधयः तथा संस्कृतभारत्याः कार्यकर्तारश्च उपस्थिताः आसन्।







