संस्कृतं भारतीयजीवनस्य संस्कृतेश्चात्मा-स्वामी ओमानन्द:

डॉ. मूलचन्द्रशुक्लः। मोरनानगरम् त्त् शुकतीर्थ: त्त् चातुर्वेद संस्कृत प्रचार संस्थानकाशी, उत्तरप्रदेश संस्कृत संस्थान लखनऊ, भागवतपीठशुकतीर्थः एतत्रयसंयुक्ततत्त्वावधाने श्रीमद्भागवतस्य विविधायामाः भारतीयज्ञानपरम्परायाः परिप्रेक्ष्ये इति विषये भागवत पीठ श्रीशुक देवाश्रमे आयोजितस्य दिवसद्वयात्मकस्य राष्ट्रियसंगोष्ठ्याः पीठाधीश्वरः स्वामीओमानन्द महाराजः,पद्मश्रीः प्रोफेसर अभिराजराजेन्द्रमिश्रः,प्रोफेसर हरिप्रसाद-अधिकारी, डॉ. वाचस्पतिमिश्रः, प्रोफेसर काशीनाथ न्योपाने, संयोजकः डॉ. चन्द्रकान्तदत्तशुक्लश्च एते अतिथयः मातुः वाग्देव्याः सरस्वत्याः चित्रस्य पुरतः दीपं प्रज्वाल्य उद्घाटन कार्यक्रमस्य शुभारम्भम् अकुर्वन्।वटुकविद्यार्थिनां वैदिक मङ्गलाचरणेन वेदस्तुत्या च कार्यक्रमस्यारम्भो जातः। चातुर्वेद संस्कृतप्रचारसंस्थानकाशी इत्यस्य राष्ट्रियाध्यक्षः प्रो॰ हरिप्रसाद-अधिकारी कार्यक्रमस्य आध्यक्ष्यं निर्वहति। सम्पूर्णानन्द संस्कृतविश्वविद्यालयस्य पूर्वकुलपतिः पद्मश्री: प्रो॰अभिराजराजेन्द्रमिश्र: मुख्यातिथिरूपेण आसीत्, केन्द्रीयसंस्कृतविश्वविद्यालयदिल्लीनगरस्य प्रो॰काशीनाथन्योपाने विशिष्टातिथिरूपेण, चौधरीचरणसिंहविश्वविद्यालयमेरठनगरस्य संस्कृत विभाग समन्वयकः प्रो॰वाचस्पतिमिश्र:, बागपततः डॉ॰ साधुरामशर्मा अतिथिरूपेण मञ्चे विराजिताः आसन्। कार्यक्रमस्य कुशलं सञ्चालनं बागपततः समागतेन डॉ॰ अरविन्द कुमार तिवारी महोदयेन विहितम्। मञ्चासीनाः सर्वेऽतिथयः शाटिका प्रदानेन श्रीशुकदेव भगवतः चित्र समर्पणेन अभिनन्दन पत्रार्पणेन च सम्मानिताः अभूवन्।
सङ्गोष्ठ्याः राष्ट्रियसंयोजकः डॉ. चन्द्रकान्तदत्तशुक्लः वर्यः समेषामभिनन्दनं विधाय सङ्गोष्ठ्याः प्रास्ताविकीं प्रस्तुतवान्। स्वाम्योमानन्द महाराजः अवदत् यत् भागवतं भगवतो वेदव्यासस्य हृदयात् निःसृता अमृतवाणी वर्तते, यस्याः श्रवणेन अज्ञानपटः अपसरति। भागवतं दिव्यज्ञानस्य जननी भक्तिज्ञानवैराग्याणां च अद्भुतं मिश्रणमस्ति यत् सर्वोच्चं जीवनं यापयितुं दर्शनं,सुखमयं जीवनं यापयितुं कलां च शिक्षयति। भागवतं भगवतः श्रीकृष्णस्य शब्दावतारोऽस्ति। भागवतमेका संस्कृतिः एका सभ्यता एका साधना एकं जीवनमूल्यं चास्ति। समाजे व्याप्तानां कुरीतीनां कुप्रथानां नकारात्मकमूल्यानां च विरुद्धं स्वरम् उत्थापयितुं शक्तिः अस्मभ्यं भागवतात् प्राप्यते। भागवतं जीवने सकारात्मकं रचनात्मकं च दृष्टिकोणम् उत्पादयति। भागवतं अशान्तितनावपूर्णे जीवने मनसः शान्तिं प्रयच्छति मनसः शान्तिरेव वास्तविकी सम्पत्तिः अशान्तिरेव च दारिद्र्यमस्ति। भागवतं जीवनमृत्योः सत्यस्य बोधं कारयति। अस्य चिरन्तननश्वरजीवनस्य सम्बद्धस्य सत्यस्य विश्लेषणं प्रभुभक्तिः परमार्थश्चैव भागवतस्य आभ्यन्तरिकं मर्म वर्तते। सः अकथयत् यत् कस्यापि राष्ट्रस्य अस्तित्वं तस्य धर्मे संस्कृतौ सभ्यतायां तस्य इतिहासे च अवलम्बितं भवति। यदि धर्मः संस्कृतिश्च जीविष्यतः तर्हि समाजो राष्ट्रं च अपि जीविष्यति। धर्मसंस्कृतेः धारा जनमानसे निरन्तरं प्रवहन्ती तिष्ठेत् इत्यनया लोकहितकामनया अस्माकं पूजनीयैः ऋषिमुनिभिः प्राचीनकाले एव सनातनधर्मः स्थापितः। अद्य सम्पूर्णे विश्वे भारतमेव सनातनधर्मस्य जनको वरीवर्ति।भारतस्यपार्श्वे समग्राय विश्वाय दातुमेकः सन्देशोऽस्ति। धर्मस्य अध्यात्मस्य च क्षेत्रे भारतं सम्पूर्णे विश्वे महत्तरमस्ति। भारतस्य समीपे अध्यात्मज्ञानस्य प्रकाशपुञ्जः शक्तिगृहं तथा विश्वस्य प्राचीनतमा समृद्धतमा च संस्कृतभाषास्ति या सर्वासां भाषाणां जननी। संस्कृतं देववाणी वेदवाणी भारतस्य वाणी ऋषिमुनीनां च वाणी अस्ति। मानवसभ्यतायाः अध्यात्मस्य च विकासे संस्कृतभाषायाः महद् अवदानमस्ति। संस्कृतं भारतीय जीवनस्य संस्कृतेश्च आत्मा अमूल्यनिधिः अमृतधारा चास्ति। अस्माकं पूजनीयैः ऋषिमुनिभिः अस्यामेव भाषायां वेदपुराण शास्त्रादीनां धार्मिकाध्यात्मिकेतिहासस्य रचना च कृता। सः पुनरपि उक्तवान् यत् भारतस्य पार्श्वे वेदपुराणोप निषद्भ गवद्गीता रामायणाख्यानां दिव्यग्रन्थानां ज्ञानं तथा गङ्गायमुना सरस्वती सदृश्यः जीवनदायिन्यो मोक्षदायिन्यश्च नद्यः सन्ति तथा च रामकृष्णशिवनाम्नी सञ्जीवनी विद्यते। अतः कारणात् भारतं जगद्गुरुः आसीत् जगद्गुरुः अस्ति जगद्गुरुः भविष्यति च।
भारतीयस्मिताया आधारस्तम्भः संस्कृतम्। पद्मश्री: अभिराजराजेन्द्रः-पद्मश्रीःप्रोफेसर-अभिराजराजेन्द्रमिश्र: अकथयत् यत् श्रीमद्भागवतं भारतीयज्ञानपरम्परायाः अखण्डधारा वर्तते या धर्मदर्शनैतिहाससंस्कृत्यध्यात्मानि सर्वाणि एकस्मिन् सूत्रे संयोजयन्ती अद्भुता सांस्कृतिकी महागाथा सन्तिष्ठति। भागवतं न केवलं ग्रन्थः अपितु सनातन भारतस्य चिरन्तनी चेतना वर्तते या मानवं भक्तिज्ञानवैराग्य कर्तव्य बोधानां समन्विते पथि प्रेरयति। सः अवदत् यत् भागवतस्य प्रत्येकः स्कन्धः भारतीयचिन्तनपरम्परायाः कस्यचित् विशिष्टस्य आयामस्य दिग्दर्शनं कारयति। क्वचित् रूपान्तरितजीवनमूल्यानां सूत्रपातः क्वचित् भक्तियोगस्य चरमोत्कर्षः, क्वचित् राजधर्मस्य विवेचनं, क्वचिच्च जीवन सिद्धान्तानां गूढतमा व्याख्या दरीदृश्यते। आचार्यमिश्रः विशेषेण उल्लिखितवान् यत् अद्य आवश्यकता वर्तते यत् भागवतस्य दार्शनिकसांस्कृतिकसामाजिक-आध्यात्मिकपक्षाणां पुनर्पाठः क्रियेत स च आधुनिकभारतीयसमाजस्य जीवन चर्यायां पुनः प्रचार्येत येन आगामिनो वंशजाः स्वमूलस्रोतसा पुनः संयोक्तुं शक्नुयुः। संस्कृतभाषायाः प्रचारप्रसार संरक्षण संवर्धनं राष्ट्रनिर्माणाय अत्यावश्यकम् इति वदन् सः पुनरुक्तवान्ा् यत् संस्कृतं भारतीयास्मितायाः आधारस्तम्भः अस्ति। भागवतसदृशाः ग्रन्थाश्च अनया भाषयैव स्वसमग्रेण तेजसा करुणया चिन्तनसमृद्ध्या च सह विश्वमानवतायै मार्गदर्शनं कुर्वन्ति। विशिष्टातिथिः प्रोफेसर काशीनाथन्योपाने संस्कृत भाषया उद्बोधनं ददत् भागवतस्य प्रथमस्कन्धस्य अनेकान् श्लोकान् उच्चारितवान् येषु भगवतः शुकदेवस्य वैराग्यं करुणा च निरूपिते स्तः। सः रासपञ्चाध्याय्याः श्लोकान् गायन् अवदत् यत् गोप्यः प्रेम्णा भत्तäया च भगवन्तं कृष्णं प्राप्तवत्यः। अग्रे तेनोच्यते यत् शुकतीर्थं मुक्तितीर्थम् अस्ति यत्र राजा परीक्षित् मुक्तिम् अलभत इत्यपि तेन निगदितम्।
सारस्वतातिथिः उत्तरप्रदेशसंस्कृतसंस्थानस्य पूर्वाध्यक्षः डॉ. वाचस्पतिमिश्र: वर्येण प्रोक्तं यत् चातुर्वेदसंस्कृतप्रचार संस्थानं संस्कृतस्य भारतीय ज्ञान परम्परायाश्च कृते महत्त्वपूर्णं कार्यं समाज संस्काराय पुरस्करोति।
बागपततः आगतः डॉ॰साधुरामः अकथयत् यत् भागवतं संसारस्य नश्वरतायाः सत्यं प्रददाति-अध्यक्षतां कुर्वन् चातुर्वेदसंस्कृतप्रचारसंस्थानस्य राष्ट्रियाध्यक्षः प्राध्यापकाधिकारिहरि प्रसादः अपि संस्कृतभाषया एव स्वकीयम् उद्बोधनम् अददात्। सः प्रत्यपादयत् यत् भागवते सृष्टिज्ञानेन सह मानवजीवनस्य सम्यक् दर्शनं विद्यते। प्रधानाचार्यः गिरीशचन्द्रोप्रेति अतिथीनां स्वागतं विहितवान् डॉ॰मिश्रप्राङ्गेशश्च धन्यवादं ज्ञापितवान्। व्याख्यानसत्रे काशीहिन्द ुविश्वविद्यालयस्य वाराणस्याः आचार्य तिवारि शैलेशकुमारः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य वाराणस्याः प्राध्यापकाधिकारिहरिप्रसादः तथा च केन्द्रीयतिब्बतीसंस्थानस्य वाराणस्याः प्रोफेसरचतुर्वेदिधर्मदत्तश्च श्रीमद्भागवतस्य द्वादशस्कन्धानुसारेण ज्ञानमहितानि वैदुष्यपूर्णानि च स्वव्याख्यानानि दत्तवन्तः। अस्य सत्रस्य संचालनं डॉ. अभिषेक पाण्डेयः महोदयेन कार्तज्ञ्यज्ञापनञ्च डॉ. मूलचन्द्र शुक्लः इत्यनेन पुरस्कृतम्। सांस्कृतिककार्य क्रमाङ्गभूता राष्ट्रिया संस्कृतकविगोष्ठी आयोजिता,यस्यां भारतस्य विभिन्नप्रान्तेभ्यः आगताः संस्कृतकवयः श्रीमद्भागवतं शुकदेवं च अधिकृत्य काव्यपाठं कृतवन्तः। अस्य आध्यक्ष्यं डॉ. अभिराज राजेन्द्र मिश्रः आतिथ्यं च प्रोफेसर हरिप्रसाद-अधिकारी विहितवन्तौ। कार्यक्रमेऽस्मिन् प्रोफेसर निरञ्जनमिश्रः, डॉ. प्रोफेसर शैलेश कुमार तिवारी, प्रोफेसर वैद्यनाथमिश्रः, प्रोफेसर राजेन्द्र त्रिपाठी, डॉ॰ अभिषेकपाण्डेय:, प्रो. वैद्यनाथमिश्र:, डॉ॰ चन्द्रकान्त शुक्ल:, डॉ॰ धनञ्जयमणित्रिपाठी, डॉ॰ इन्द्रेश पाण्डेय:, तपस्वीपाराशर:, डॉ॰ योगेन्द्रकुमार:, डॉ॰ मूलचन्द्र शुक्ल:, डॉ. अम्बरीशमिश्रः,डॉ तेजप्रकाशः चतुर्वेदी इत्यादयो कवयः स्वस्वकाव्यपाठं पुरस्कृतवन्तः। सत्रेस्मिन् काव्य पाठपूर्वकं सञ्चालनं हर्षितः धन्यवादज्ञापनञ्च डॉ. अरविन्द कुमारतिवारी कृतवन्तौ। प्रो. रीता तिवारी, प्रो. मञ्जुलता शर्मा,डॉ॰ प्रमोद कुमार मिश्र:, डॉ॰ खगेन्द्रमिश्र:, ट्रस्टी ओमदत्तदेव:, कथाव्यास: अचलकृष्णशास्त्री, आचार्य सुमन, डॉ॰ अम्बरीशमिश्र:, डॉ॰ रोशनी असवालः,डॉ॰ राजीव मिश्र:,डॉ॰ आशीष मणि त्रिपाठी, डॉ॰ रविकान्त भारद्वाज:,आचार्य अतुल अवस्थी च इत्यादय: कार्यक्रमेषु साक्षिभूता: समभवन्।

  • editor

    Related Posts

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    देहरादून/वार्ताहर:। हरिद्वारनगरे देवसंस्कृति विश्वविद्यालयेन आयोजिते ध्वजारोहण समारोहे मुख्यमन्त्री पुष्करसिंह धामी, केन्द्रीय संस्कृति पर्यटन मन्त्री गजेन्द्रसिंह शेखावतः च भागं गतवन्तौ।वक्तारः गायत्री परिवारस्य शताब्दी समारोहं भारतीय संस्कृतेः,सेवायाः, आध्यात्मिक व्यवहारस्य च पुन र्जागरणस्य…

    संघर्षशीलस्वप्नस्य सुखदयात्रा-उत्तराखण्डसंस्कृत-अकादम्याः उत्तराखण्डसंस्कृत-संस्थान-पर्यन्तयात्रा

    कुलदीपमैन्दोला। उत्तराखण्ड संस्कृत-अकादम्याः उत्तराखण्डसंस्कृत-संस्थान-पर्यन्तं संघर्षशीलस्वप्नस्य सुखदयात्रा विषये पूर्वप्रदेश-संघटन-मन्त्री, (संस्कृत भारती-उत्तराखण्डं)डा.नरेन्द्रपाण्डेय वर्य: भावाक्षराणि प्रकटयति यत्-मित्राणि! यत् कश्चित् वृक्षः रोप्यते, नितान्तं न आवश्यकं यत् तस्य फलानां स्वादः स्वजीवन काले एव अनुभूयेत। तथैव…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 95 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 54 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 44 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 38 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 48 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 71 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page