मऊ (चित्रकूट) श्रावणी उत्सवः आनन्देन आचरितः प्रतिवर्षमिव अस्मिन् वर्षे अपि नगरपरिषदः मऊ संस्कृतस्य प्रमुख विद्वान् साहित्यरत्नाचार्य स्वर्गीय जगतपाल त्रिपाठी इत्यस्य निवासस्थाने वैदिक रीत्या सप्तर्षि पूजनेन श्रावणीपर्वः आचरितः। क्षेत्रस्य ब्राह्मण समुदायः प्रथमं मौ महिलाघाटं प्राप्य महेन्द्रादिसंकल्पानन्तरं वैदिक रीत्या सूर्योपासनं कृतवान्। तथा यमुनातटे उपविश्य शास्त्रविधिना पूजां सम्पन्नवान्। पूजा, सप्तर्षि पूजन, हवन इत्यादीनां आयोजनानन्तरं प्रसादवितरणं कृत्वा ब्राह्मणसमुदायेन प्रतिज्ञा कृता यत् सर्वे एवमेव स्ववैदिकपरम्परायाः अनुसरणं करिष्यन्ति इति। आचार्यचन्दनदेव त्रिपाठी इत्यनेन उक्तं यत् श्रावणीपर्वः सर्वपापात् मुक्तं करोति इति उत्सवः अस्ति। प्राचीन कालात् प्रचलिता एषा वैदिकपरम्परा मनुष्यम् पापबन्धनात् मुक्तं करोति। ज्ञात्वाअज्ञात्वा कृतं किमपि पापं त्यक्तुं सूर्य भगवान् पूज्यते।






