प्रयागराज:। वार्ताहर:। प्रयागराजनगरे माघमेलायां प्रचलति उपक्रमः गौप्रतिष्ठप्रेरणयात्रा शुक्रवासरे द्वितीयदिने अपि अचलत्। अक्षयवतमार्गे महात्यागीबाबा शिबिरात् प्रातः १० वादने यात्रा आरब्धा। कुल १७० शिबिराणां भ्रमणं कृत्वा शंकराचार्यस्वामी अविमुक्तेश्वरा नन्द सरस्वती सन्तैः, तपस्वीभिः, संस्थाभिः, भक्तैः च सह संवादं कृतवान् । सनातनजीवनपद्धत्या गोस्य स्थानं, महत्त्वं, रक्षणं च इति विषये चर्चाः अभवन्। यात्राकाले जगद्गुरुशज्र्राचार्यः अनुयायिभिः सह विविधशिबिरेषु उपस्थितानां साधुनां गोरक्षणार्थं प्रेरितवान्। संवादस्य अनन्तरंजगद्गुरुशज्र्राचार्यःस्पष्टतयाअवदत् यत् हिन्दुधर्मः गाविनअकल्पनीयअस्ति; अस्माकं धर्मस्य, संस्कृतिस्य, परम्परायाः च मूलम् अस्ति। सः अपि अवदत् यत् गोरक्षणं केवलं भावात्मकः विषयः नास्ति, अपितु सभ्यतायाः, कृषिजीवनस्य, आयुर्वेदस्य, धर्मस्य च आधारः अस्त्।ि विभिन्नेषु शिबिरेषु उपस्थिताः सन्तः गो-आधारित-कृषिः, गो-उत्पादाः, ग्रामीण-अर्थव्यवस्था च प्रकाशयन्ति स्म, भारतस्य सांस्कृतिक-आत्मा गो-सम्बद्धा इति बोधयन्ति स्म सः युवान् गोरक्षणं संकल्पेन सह सम्बद्धं कर्तुं आग्रहं कृतवान्, न तु केवलं विचारैः। महावीरमार्गे सतुआ बाबाजी शिबिरे अपराह्णे २ वादने यात्रायाः समापनम् अभवत्।
गौ प्रतिष्ठा प्रेरणयात्रायाः उद्देश्यं केवलं भावानाम् उद्दीपनं न अपितु समाजे कर्तव्य बोधस्य जागरणंभवति। १७० शिबिरेषु संवादः अभवत्, आगामि दिनेषु माघ प्रदेशस्य प्रत्येकं शिबिरेषु एतत् सन्देशं प्रसारयितुं वयं दृढनिश्चयाः स्मः। इयं यात्रा माघमेला-सङ्कुलस्य अन्तः अग्रे गमिष्यति, आगामिषु दिनेषु वयं संवादस्य, संकल्पस्य, प्रेरणास्य च व्याप्तेः अधिकं विस्तारं कर्तुं योजनां कुर्मः।






