वैदिकब्राह्मणमहासभा, ऋषिकेशद्वारा ब्रह्मसमाजः समाहूतः

ऋषिकेशः। वैदिकब्राह्मणमहासभा, ऋषिकेशः विशिष्टां समितिसभां, महासभायाः प्रधानकार्यालये जनार्दन आश्रमे, दण्डीवाडा, मायाकुण्डे, सभाध्य क्षस्य पण्डितजगमोहनमिश्रस्य अध्यक्ष्ये आयोजयत्। तत्र सभायां देवभूमेः ज्येष्ठश्रेष्ठाः शास्त्रज्ञाः ज्योतिषविद्वांसः भागं गृहीतवन्तः। सभायाः मुख्योद्देश्यं सनातनधर्मस्य प्रमुखस्य पर्वणो दीपावल्याः कदा आचरणं भवेद् इति निर्णयः कर्तव्यः। किञ्च, सामाजिक माध्यमेषु केभ्यश्चन दिवसेभ्यो भ्रमयुक्त वचनानि प्रसारितानि दृश्यन्ते। अनेन कारणेन महासभायाः कर्तव्यं यत् एषा भ्रमस्थिति र्निवारयितव्या। उपस्थितैः सर्वैः ज्योतिषाचार्यैः शास्त्रीयसाक्ष्यानि संस्थाप्य निर्णयः कृतः यत् दीपावलीमहापर्वः केवलं २१ अक्टोबर् २०२५ तमे एव दिने आचर्येत इति शास्त्रसम्भृतम्। सभायाम् उपस्थितैः सर्वैः विद्वद्भिः निर्णयसिद्ध्यर्थं सिन्धु, धर्मसिन्धु, पुरुषार्थचिन्तामणि, तिथि निर्णय च इत्येषां धर्मग्रन्थानां मन्थनं कृत्वा स्पष्टं शास्त्रकथनं प्रस्तुतम्। त्रिमुहूर्त नियमेन (त्रि व्यापिनी तिथिरेव ग्राह्य) यदि अमावस्या तिथिः दिनस्य अन्तिमत्रैणि मुहूर्तानि, यानि सूर्यास्तपूर्वं लगभग चतुर्घंटाः , स्थास्यति तदा सः दिवसः लक्ष्मीपूजायै ग्राह्यः । एषा स्थितिः २१ अक्टोबर् २०२५ तमे एव अमावस्यायां त्रिमुहूर्त सूर्यास्त स्पर्शेन दृष्टः। युग्म वाक्येन (युग्मानि युगभूतानां षणमुन्योः वसुरन्ध्रयोः रुद्रेण द्वादशी युक्ता चतुर्दशी च पूर्णिमा प्रतिपदाय मावस्या तिथ्योः युग्म महाफलम् एतत् ह्यस्ते महघोर हन्ति पुण्यं पुराकृतम्) प्रदोषकाले अमावस्यायाः अनन्तरं प्रतिपदायुग्ममुहूर्तं महापुण्यदायि इति शास्त्रे कथितम्। अतिरिक्ततः चतुर्दशी रिक्ता तिथिः तथा अमबौके योगः अनिष्टकारी इत्युक्तः। एषां प्रमाणानुसार अपि २१ अक्टोबर् तिथिः दीपावली महापर्वाय उचितः। अन्यानि अपि शास्त्रीयसाक्ष्यानि महासभया परीक्ष्य निर्णयः कृतः यत् दीपावली २१ अक्टोबर् २०२५ तमेव आचर्यमाणः। सभायाम् उपस्थिताः महासभाध्यक्षः जगमोहनमिश्रः, महामन्त्री आचार्य शिवप्रसाद सेमवालः, गंगाराम व्यासः, जितेन्द्र भट्टः,मनोजसिलसवालः,केशवबहुगुणा, जमुना प्रसाद कलोनी,दिनेशकुमारतिवारी,अमित कोठारी, पण्डित सोमनाथः, मुकेश थपलियालः, सुरेश कान्तपन्तः, मोहितभट्टः, आयुष कोठारी, आयुष गौड़ः च।

  • editor

    Related Posts

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    देहरादून/वार्ताहर:। हरिद्वारनगरे देवसंस्कृति विश्वविद्यालयेन आयोजिते ध्वजारोहण समारोहे मुख्यमन्त्री पुष्करसिंह धामी, केन्द्रीय संस्कृति पर्यटन मन्त्री गजेन्द्रसिंह शेखावतः च भागं गतवन्तौ।वक्तारः गायत्री परिवारस्य शताब्दी समारोहं भारतीय संस्कृतेः,सेवायाः, आध्यात्मिक व्यवहारस्य च पुन र्जागरणस्य…

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    आनन्द शुक्ल। २०२६ तमे वर्षे बीएमसी-निर्वाचने भाजपा-शिवसेना-सङ्घटनेन ऐतिहासिकं विजयं प्राप्तम्, एकैकंबृहत्तमं दलं रूपेण उद्भूतम्। एतेन विजयेन ठाकरे-परिवारस्य दशक त्रयपर्यन्तं कृतं वर्चस्वं समाप्तं भवति। बीएमसी-मध्ये २२७ वार्डेषु बहुमतस्य अंकः ११४ अस्ति,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 95 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 54 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 44 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 38 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 50 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 73 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page