
प्रयागराज:। वार्ताहर:। लखनऊ विश्वविद्यालयस्य योगविभागेन११ तमअन्तर्राष्ट्रीय योगदिवसस्यसज्जतायाः भागरूपेणशतकर्मकार्यशाला आयोजिता। इयं कार्यशाला योगवैकल्पिकचिकित्सासंकायस्य योगसभा शालायां सम्पन्नवती। इयं कार्यशाला योग वैकल्पिक चिकित्सा संकायस्य योगसभाशालायां सम्पन्नवती। एतानि योगस्य शुद्धिविधयः इति सः अवदत्। एते शरीरं, मनः, ऊर्जातन्त्रं च स्वस्थं कुर्वन्ति। सः अवदत् यत् वर्तमान जीवनशैल्यांगलत् आहार-अभ्यासाः,प्रदूषणं, मोबाईलस्य अतिप्रयोगः च स्वास्थ्यं प्रभावितं कुर्वन्ति।सः अवदत् यत् षट्कर्म शारीरिक-मानसिक-सन्तुलनस्य वैज्ञानिक-विधिः अस्ति। इतरथा लखनऊ विश्वविद्यालयः केजीएमयू च मिलित्वा दिव्याङ्ग जनानां कृते योग शिबिरस्य आयोजनं कृतवन्तः केजीएमयू-संस्थायाः अङ्गकेन्द्रे अयं शिबिरः आयोजितः आसीत्। प्रतिभागिनः योगस्य अभ्यासं कृत्वा मानसिक शान्तिं सकारात्मकं ऊर्जां च अनुभवन्ति स्म।