

लखनऊ। वार्ताहर:। लखनऊ नगरे स्थिते भारतीय रेलवे परिवहन प्रबन्धन संस्थाने विशेषः कार्यक्रमः आयोजितः। भारतीय रेल प्रबन्धन सेवायाः २०२२ बैचस्य प्रथम समूहस्य दीक्षांत समारोहः अत्रैव सम्पन्नः। अस्मिन् अवसरे मुख्यातिथि रूपेण रेलवे बोर्डस्य अपरसदस्यः अमित वर्धनः उपस्थितः आसीत्। दीपप्रज्वलनेन शपथेन च कार्यक्रमस्य आरम्भः अभवत् समारोहस्य आरम्भः पारम्परिकदीप प्रज्वलनेन अभवत्, यस्मिन् संस्थायाः अतिरिक्त महानिदेशकः संजय त्रिपाठी सहिताः अन्ये अधिकारिणः अपि उपस्थिताः आसन्। तदनन्तरं डीन शिशिर सोमवंशी इत्यनेन नवीन प्रशिक्ष ुपदाधिकारिभ्यः सेवाशपथः प्रदत्तः। २०२२ बैचस्य १६ अधिकारी भारतीय रेलवे सम्मिलिताः भविष्यन्ति
अस्य बैचस्य अधिकारिणः १०४ सप्ताहाणां प्रशिक्षणं सम्पन्नवन्तः। अधुना एते १६ यातायात परीक्षाधीनाधिकारिणः देशस्य विभिन्नेषु अञ्चलरेल मार्गेषु नियुक्ताः भविष्यन्ति।
परम्परा रूपेण २०२२ तमस्य वर्षस्य बैचस्य अधिकारिणः २०२३ तमस्य वर्षस्य बैचस्य कृते संस्थायाः ध्वजं समर्पितवन्तः, यत् सेवायाः उत्तरदायित्वं, विरासतां च अग्रे सारयितुं प्रतीकं भवति मुख्यातिथिः अमितवर्धनः नवनि युक्ताधि कारिणः रेलमार्गस्य चुनौतीनां कृते सज्जाः भवेयुः, दृढकार्यनीतिं च स्वीकुर्वन्तु इति सल्लाहं दत्तवान्। संस्थानस्य अपर महानिदेशकः संजय त्रिपाठी प्रशिक्षण सुविधानां विषये सूचनां दत्तवान् तथा च संस्थायां भवन्ति मूलभूतपरिवर्तनानि च। उत्तम प्रदर्शकानां सम्मानः अभवत् अस्मिन् अवसरे उत्तमं प्रदर्शनं कृतवन्तः प्रशिक्षुणः पुरस्कारं दत्त्वा सम्मानिताः आसन् कृतिका मिश्रा सर्वश्रेष्ठ आईआर एमएस अधिकारी प्रशिक्षु।