राजकीयशिक्षकसङ्घस्य दुगड्डाविकासखण्डे शिक्षकाणां स्वपदोन्नत्यर्थं सिंहनादः

वार्ताहर:- कुलदीपमैन्दोला। पौडीजनपदस्य कोटद्वार नगरे पञ्चविंशतितमे दिवसे अगस्तमासस्य पञ्चविंशत्युत्तर द्विसहस्रतमे वर्षे राजकीयशिक्षकसङ्घस्य दुगड्डाख्य विकास खण्डशाखया एक दिवसीयं विरोध प्रदर्शनं सफलतापूर्वकमनुष्ठितम्। पौडीजनपदस्य सर्वेषु पञ्चदशसु विकास खण्डेषु सङ्घस्य आह्वान मनुसृत्य शिक्षकाः स्वस्य चिर लम्बितं पदोन्नतिं वर्तमान शिक्षा सत्रे स्थानान्तरणं तथा च प्रधानाचार्य पदाय साक्षाद्भर्ती प्रक्रियायाः विरोधं च उद्दिश्य क्षेत्र शिक्षाधिकारिणां कार्यालयेषु समवेता अभूवन्। शिक्षकाणामयं घोषः यद् एकस्मिन्नेव पदे नियुक्ता स्ते तस्मादेव पदात् सेवानिवृत्ताश्च भवन्ति यावज्जीवं पदोन्नतेः सुखं नैव जानन्ति। प्रशासनस्य पिहितेषु पदोन्नतिक पाटेषु सङ्घेनायं यः दृढः प्रहारः कृतः तस्यानु गूँजः सकले उत्तराखण्डेऽश्रूयत। इदानीं शासने नैव निर्णेतव्यं यत् किं ते शिक्षकाणां न्याय्यान् अभ्यर्थनान् अङ्गीकृत्य शिक्षायाः श्रेयसे प्रयतन्ते उत वा विरोधस्य दमनस्य पीडनस्य च मार्गं स्वीकुर्वन्ति। नीतिशास्त्रेष्वपि प्रोक्तं यत्कर्मकरेभ्यः काले भृति प्रदानं पदोन्नतिप्रदानं च राज्ञः परमं कर्तव्यमिति। यदि शासनम स्माकं न्याय सङ्गतान् अभ्यर्थनान् न स्वीकरोति हठधर्मितापूर्णं व्यवहार माचरति च तर्हि आगामिनि सप्तविंशतितमे दिवसे पौडी जनपदस्य मुख्यकेन्द्रे भविष्यति महाविरोधप्रदर्शने अस्माभिः सर्वेभ्यः अधिकाधिकसंख्यायां भागो ग्रहीतव्यः येन शासनोपरि विभागोपरि च सम्यक् प्रभावः स्यात्। स्वसदस्यानां हितानां रक्षणार्थमेव सङ्घटनानां मुख्यं कर्तव्यं भवति। सङ्घेनाहूतं यत् शासनस्य कस्यापि दमनकारिणः उत्पीड़कस्य वा आदेशात् नैव विचलितव्यम्। यदि शासनं किमपि तादृशं कर्म करोति तर्हि अस्माभिः अधिकेन सङ्घर्षेण प्रतिरोधः करणीयः ऐक्यभावेन च आन्दोलन मिदमग्रे नेयम्। पौडी मुख्य केन्द्रे भवतां क्रान्तिकारिणः स्वागतस्य कृते वयं सर्वे सज्जाः स्मः।
भवतां शुभागमनम स्माक मान्दोलनस्य दीपशिखा मधिकं प्रज्वालयिष्यति। अस्मिन्नवसरे दुगड्डाख्ये खण्ड शिक्षाधिकारिणः कार्यालये सङ्घस्य सदस्यैः स्वकीयाभ्यर्थना नामेकं ज्ञापनपत्रं समर्पितम्। खण्ड शिक्षाधिकारिणः पदे तदानीं राजकीय-इण्टर-महाविद्यालय-झण्डीचौडस्य प्रधानाचार्याः नेगिमहोदयाः कार्यं पश्यन्ति स्म। तेभ्यः पत्रं दत्त्वा शिक्षकाः स्वविचारान् प्राकटयन्। नेगिमहोदयेनोक्तं यत् शिक्षकाणा मभ्यर्थना वस्तुतो न्याययुक्ताः सन्ति किन्तु अस्माभिः स्वकर्तव्यानां निर्वहणमपि अवश्यं करणीयमिति। अवसरेऽस्मिन्न न्यैरपि सदस्यैः स्वविचाराः प्रकटीकृताः

  • editor

    Related Posts

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    शम्भूनाथ त्रिपाठा/प्रयागराज:। रविवासरेमाघ मेलायाःबृहत्तमःउत्सवः’मौनीअमावस्या’इति विश्वासस्य एतादृशः अपूर्वः समुद्रः दृष्टः यत् विश्वस्य अत्यन्तं विकसित राष्ट्राणि आधुनिकमहानगराणि च अपि संगमस्यवालुकाभिः बौनारूपेण दृश्यन्तेस्म एकस्मिन् दिने एव ४ कोटिभ्यः अधिकाः भक्ताः संगमतटेषु डुबकीं कृतवन्तः।…

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    नवदेहली। भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्। निर्वाचनप्रक्रियायां भागं ग्रहीतुं सर्वे भाजपा मुख्यमन्त्रिणः, राज्य-एककानां प्रमुखाः, अन्ये च प्रमुखाः नेतारः दलस्य मुख्यालये एकत्रिताः भविष्यन्ति। नबीनः दलस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 95 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 54 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 44 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 38 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 50 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 72 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page