प्रवेशकुमारशुक्ल:/लखनऊ। उत्तरप्रदेश-संस्कृत-संस्थानस्य लखनऊ-नगरस्थितस्य तत्त्वावधाने निदेशकस्य विनय-श्रीवास्तवस्य मार्गदर्शनेन सञ्चालिते ‘ऑनलाइन-प्रशिक्षण-पाठ्यक्रम-निर्माण-योजनायाः’ अन्तर्गते संस्कृतभाषा-शिक्षण कक्षाणां परतया ‘योगस्य भाषा संस्कृतम’ इति विषयकं प्रेरणासत्रम् आयोजनं सम्पन्नम्। मुख्यवक्तृरूपेण राष्ट्रिय-संस्कृत-विश्वविद्यालयस्य तिरुपति नगर स्थितस्य व्याकरण विभागीयः सहाय्यकाचार्यः डॉ० उदयन हेगडे ‘योगस्य भाषा संस्कृतम्’ इति विषयम वलम्ब्य विवेचनं कृतवान्। सः अवदत् यत्-२१ जून दिनाङ्के सम्पूर्णे विश्वस्मिन् अन्ताराष्ट्रिय-योग-दिवसस्य आयोजनं भविष्यति। योगः अस्माकं भारतवासिनां कृते नवविषयः नास्ति, किन्तु विगतवर्षेभ्यः यदा विश्वस्तरेण योगदिवसस्य आयोजनाय औपचारिक-घोषणा जाता तदा प्रभृतिः योगदिवसस्य महत्त्वविषयकाः विविधाः कार्यक्रमाः सञ्चालिताः सन्ति।
सः आह्वानं कृतवान् यत् संवादस्य माध्यमः संस्कृतभाषा एव अस्माभिः स्वीकार्या। तदीयं वक्तव्यम् आसीत् यत् -‘आसनं, प्राणायामः’ इत्येत्यादिक मेव योगः इति मतिः प्रचलिता अस्ति, किन्तु व्याकरणदृष्ट्या ‘योग’ इत्यस्य अर्थः ‘संबन्धः’ इति। योगशब्दस्य अनेके अन्येऽपि अर्थाः शस्त्र निर्दिष्टाः सन्ति। यदि वयं संस्कृतभाषां सम्यक् अध्येष्यामहे तर्हि योग शास्त्रस्य सम्यक् अध्ययनं कर्तुं समर्थाः भविष्यामः यतः योगशास्त्रं संस्कृते एव उल्लिखितम् अस्ति। समागतानां स्वागतं, परिचयं च संस्थानस्य प्रशिक्षण समन्वयकः दिव्यरञ्जनः कृतवान्। शुभारम्भः शिक्षार्थिना संदीप शुक्लेन वैदिक-मङ्गलाचरणेन कृतः। सरस्वतीवन्दनां शिक्षार्थिन्या कुमुद शर्मणा, स्वागतगीतं गायत्री-शांख्लया, गीतायाः-द्वादश-अध्यायस्य पारायणं षड्वर्षीयेण आद्विकेन, कक्षागतानुभवः धैर्यशीलेन, सुभाषितकथनं खुशीमौर्यया, एकल गीतं सुभाषपाण्डेयेन च प्रस्तुतम्। कार्यक्रमस्य सञ्चालनं प्रशिक्षिकया आस्था शुक्लया, धन्यवाद ज्ञापनं दिव्यया कृतम्। शान्तिमन्त्रः ओमदत्त- द्विवेदिना पठितः। आभासीय-अवसरे योजना-प्रभारी श्रीभगवान सिंहचौहानः,प्रशिक्षण-प्रमुखःसुधिष्ठकुमारमिश्रः,समन्वयकः धीरज मैठाणी, सुश्री राधाशर्मा, प्रशिक्षकः अमितसामवेदी, प्रशिक्षिका दीपमाला, संयोजकः प्रशिक्षकः सत्यम्मिश्रः इत्येते च समस्त-शिक्षार्थिनः च उपस्थिताः आसन्।
मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः
शम्भूनाथ त्रिपाठा/प्रयागराज:। रविवासरेमाघ मेलायाःबृहत्तमःउत्सवः’मौनीअमावस्या’इति विश्वासस्य एतादृशः अपूर्वः समुद्रः दृष्टः यत् विश्वस्य अत्यन्तं विकसित राष्ट्राणि आधुनिकमहानगराणि च अपि संगमस्यवालुकाभिः बौनारूपेण दृश्यन्तेस्म एकस्मिन् दिने एव ४ कोटिभ्यः अधिकाः भक्ताः संगमतटेषु डुबकीं कृतवन्तः।…






