योगः: वैश्विक चुनौतीनां समाधानम् ‘योगः कर्मसु कौशलम्’-भगवद्गीता

लेखिका-अलका सिंह
शोधछात्रा, विश्वविद्यालय, जगद्गुरु रामभद्राचार्य राज्य विश्वविद्यालय, चित्रकूट

चित्रकूट/प्रयागराज:। विश्वे यदा मनुष्यः विज्ञानविजये उन्नतिं प्राप्तवानस्ति, तदा अन्यस्मिन् पथि सः आत्मनः, समाजस्य च नैतिकमूल्येभ्यः द्रुतं विलीयमानः दृश्यते। तां विडम्बनाम् अस्माभिः यत्र तत्र लक्ष्यते-सामाजिक विघटनम्, मानसिक विकारः, पर्यावरण दूषणम्, शोषणम्, आर्थिक विषमता, भोगवादी प्रवृत्तयः च। विशेषतः आर्थिकविषमता तथा भोगवादप्रवृत्तयः समाजस्य स्थायित्वं, शान्तिं च बाधन्ति। एतादृशे संघर्षे योगशास्त्रं न केवलं आन्तरिकशान्तेः साधनं, अपि तु बहिर्मुखचिन्तनस्य सन्तुलनं, लोभेच्छाया: दमनं च करोतुं समर्थं अस्ति। एषः शोधपत्रः उक्ते उपविषये विस्तरेण चिन्तनं प्रददाति। योगशास्त्रस्य स्वरूपम्-योगः कीदृशः? योगश्चित्त वृत्तिनिरोधः’। योग: न केवलं व्यायामः, अपि तु चित्तनियमनम्, आत्मानुभवः, संयमः च। योगः अष्टाङ्गरूपेण पतञ्जलेन निरूपितः-यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान, समाधिः च। एते अङ्गानि जीवनस्य सर्वसन्दर्भेषु अनुकरणीयानि।
योगदर्शनस्य इतिहासः-योगदर्शनं वैदिककालात् आरभ्य समुपलभ्यते। वेदेषु, उपनिषद्सु, महाभारते, गीता, सांख्य शास्त्रे च योगस्य विवेचनं दृश्यते। विशेषतः गीता योगेन कर्म, ज्ञान, भक्तेः समन्वयं प्रदर्शयति। आर्थिकविषमता इत्युक्तं सामाजिके समुदायेषु संसाधनानां, आयस्य, सम्पत्तेः च विषमवितरणम्। एका व्यक्तिः यदि लक्षाधिपति, अन्यो जीविकोपार्जनाय संघर्षं करोति, तर्हि सा विषमता भवति।
कारणानि-
१. लोभः-‘अपर्याप्तमपि धनेच्छा तृप्तिं न ददाति।’
२. संसाधनानां दुरुपयोगः-बहुभिः अल्पहस्ते सम्पदा स्रवति।
३. उपभोगकेन्द्रितनीतिः-लाभं लक्षीकृत्य कार्यविन्यासः।
४. शिक्षायाः अभावः-निम्नवर्गस्य आत्मोन्नतौ बाधाः।
५. नवउद्योगेषु असमानवृत्तिः-वेतनपद्धत्याः विषमता।
प्रभावः सामाजिकद्वेषः, असंतोषः च वर्धते। अपराधप्रवृत्तयः वर्धन्ते। मानसिकतनावः, विषादः, हिंसा च दृश्यन्ते।
भोगवादीप्रवृत्तयः-चरित्रविनाशस्य कारणम्
.१ भोगवादस्य स्वरूपम्
भोगवादः इत्यनेन तात्पर्यमस्ति-जीवने परमानन्दः उपभोगे एव’।मनुष्ययदि भौतिकवस्तुषुसुखम्अनुभवति इति चिन्तयति, तर्हि सः त्याग, संतोष, संयमादिभ्यः दूरं गच्छति।
भोगवादः आधुनिके सन्दर्भे
१. विज्ञापनानि लोभं जाग्रयन्ति। २. प्रतिस्पर्धा संस्कृतेः कारणेन अधिकं अर्जयितुं, अधिकं उपभोक्तुं इच्छा वर्धते।
३. समाजे जीवनमूल्यानां हासः दृश्यते। दुष्परिणामाः नैतिक मूल्यानां क्षयः। मानसिकरोगः, तनावः च। पर्यावरणविनाशः।
५. योगः –आर्थिकविषमतेः परिहाराय
योगेन आत्मसंयमः
योगाभ्यासेन लोभः, ईर्ष्या, द्वेषः च शम्यन्ते। योगः व्यक्तिं आत्मनः प्रति प्रत्यागतं करोति। यदा अहं आत्मनं जानामि, तदा अन्यस्य सम्पत्तिः मम लक्ष्यं न भवति।
सन्तोषस्य प्रतिष्ठा
‘सन्तोषातनुत्तमं सुखम्-हठयोगप्रदीपिका योगः मनसि सन्तोषं स्थापयति। अस्य सन्तोषस्य आधारः न बाह्यवस्तुनि, अपि तु आन्तरिकशान्तौ।
सामाजिकसन्तुलनस्य प्रेरणा
योगः केवलं स्वकल्याणाय न, अपि तु सर्वस्य हिताय प्रेरयति-‘लोकाः समस्ताः सुखिनो भवन्तु’ इति। एषा वृत्तिः समवितरणं, न्यायमूलकसंपत्ति-विन्यासं च समर्थनं करोति।
योगः-भोगवादविच्छेदनस्य साधनम्
वैराग्यम्
‘दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम्’-योगसूत्राणि १.१५ योगः मनसि वैराग्यं स्थापयति। यदा साधकः आत्मसाक्षात्कारं करोति, तदा भौतिकवस्तुषु रुचिः स्वयमेव नश्यति।
संयमः च नियमः-अष्टाङ्गयोगे यम-नियमयोः विशेषमहत्त्वं अस्ति। अहिंसा, सत्यं, अस्तेयम्, ब्रह्मचर्यम्, अपरिग्रहः च। एते यदा आचर्यन्ते, तदा भोगवृत्तिः लुप्यते।
मनःशुद्धिः च साधकवृत्तिः-प्रत्याहार, धारणा, ध्यान इत्यादयः योगाङ्गानि मनसः विशुद्धिं साधयन्ति। योगाभ्यासेन साधकः आत्मिकमूल्येषु स्थिरः भवति, सः स्वार्थे न प्रवर्तते।
सांख्य-योगदर्शनयोरन्वयः-सांख्यं तत्वमीमांसा, योगः साधनपद्धतिः। सांख्येन विवेकः, योगेन अनुभवः।
‘पुरुषः प्रकृतेः भिन्नः। सः केवलं दृष्टा।’-सांख्यकारिका
एषा विचारधारा यदा समाजे स्थिरा भवति, तदा भोगवादः, विषमता च स्वयमेव नश्यतः।
आधुनिकप्रयासाः-योगे विश्वव्यापि आन्दोलनम्
सर्वकारीपहलः- अन्ताराष्ट्रिययोगदिवस: -संयुक्तराष्ट्रे भारतस्य प्रस्तावेन प्रतिवर्षं जून २१ तमे योगदिवसः आयोज्यते। स्कूलयोग शिक्षा-भारतसरकारा विद्यालये योगशिक्षां अनिवार्यं कर्तुमन्ये प्रयत्नं करोति।
२ सामाजिकसंस्थाः
१. पतंजलि योगपीठ-स्वामी रामदेवजी।
२.आर्ट आफ लिविंग-श्री श्री रविशंकरजी।
३. ईशा फाउन्डेशन-सद्गुरुः।
एते संस्थाः योगस्य प्रचारं केवलं स्वास्थ्यनिमित्तं न, अपि तु सामाजिक-नैतिकपरिवर्तनाय च कुर्वन्ति।
. निष्कर्षः-यदा मनुष्यः योगमार्गं स्वीकरोति, तदा सः न केवलं आत्मनः जीवनं सुधारयति, अपि तु समाजस्य समत्वं, आर्थिकन्यायं च स्थापनाय सज्जो भवति। योगः लोभं विनाशयति, सन्तोषं वर्धयति, वैराग्यं स्थिरं करोति, संयमं दर्शयति। अतः, अस्मिन् भोगप्रधानयुगे, योगः एव नवयुगे चैतन्यमूलकं जीवनं स्थापनाय श्रेष्ठोपायः भवति।

  • editor

    Related Posts

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    देहरादून/वार्ताहर:। हरिद्वारनगरे देवसंस्कृति विश्वविद्यालयेन आयोजिते ध्वजारोहण समारोहे मुख्यमन्त्री पुष्करसिंह धामी, केन्द्रीय संस्कृति पर्यटन मन्त्री गजेन्द्रसिंह शेखावतः च भागं गतवन्तौ।वक्तारः गायत्री परिवारस्य शताब्दी समारोहं भारतीय संस्कृतेः,सेवायाः, आध्यात्मिक व्यवहारस्य च पुन र्जागरणस्य…

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    आनन्द शुक्ल। २०२६ तमे वर्षे बीएमसी-निर्वाचने भाजपा-शिवसेना-सङ्घटनेन ऐतिहासिकं विजयं प्राप्तम्, एकैकंबृहत्तमं दलं रूपेण उद्भूतम्। एतेन विजयेन ठाकरे-परिवारस्य दशक त्रयपर्यन्तं कृतं वर्चस्वं समाप्तं भवति। बीएमसी-मध्ये २२७ वार्डेषु बहुमतस्य अंकः ११४ अस्ति,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 96 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 55 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 45 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 39 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 53 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 77 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page