हरिकृष्ण शुक्ल/देहरादून! मॉरीशसस्य प्रधानमन्त्री डॉ. नवीनचन्द्र राम गुलामः देहरादूनविमानस्थानकं प्राप्तवन्तः। विमान स्थानके तस्य स्वागतं कृतम्। चतुर्दिवसीयस्य राज्ययात्रायाः भागरूपेण मॉरीशसस्य प्रधानमन्त्री उत्तराखण्डम् आगतः। सः उत्तराखण्डस्य अनेकस्थानानि गमिष्यति। पूर्वं वाराणसी नगरे मॉरीशसस्य प्रधानमन्त्री डॉ. नवीन चन्द्रराम गुलाम इत्यनेन सह द्विपक्षीय वार्तायां प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् भारतं मॉरिशसं च केवलं भागीदारौ न, अपितुपरिवारः एव। भारतं मॉरिशस् च द्वौ देशौ किन्तु अस्माकं स्वप्नाः एकाः। सः अवदत् यत् गतवर्षे मॉरीशसदेशे यूपीआइ, रूपायकार्ड् च प्रवर्तन्ते स्म। अधुना वयं स्थानीयमुद्रायां व्यापारं कर्तुं कार्यं करिष्यामः। अस्मिन् अवसरे द्वयोः देशयोः मध्ये सप्त सम्झौताः कृताः।
भारतेन ६८० मिलियन डॉलर (प्रायः ६००० कोटिरूप्यकाणां) विशेषं आर्थिक पैकेज् अपि घोषितम्, यस्य उपयोगेन मॉरिशसदेशः स्वस्य आधारभूत संरचनानां स्वास्थ्यसुविधानां च उन्नयनार्थं रोजगारस्य अवसरानां वर्धनार्थं च करिष्यति प्रधानमन्त्री मोदी उक्तवान् यत् अस्मिन् वर्षे वयं भारतस्य मॉरीशसस्य च मध्ये अखण्डसेतुं स्थापितं शिवसागर राम गुलमस्य १२५ तमे जन्मदिवसम् आचरन्तः स्मः। एतेन द्वयोः देशयोः सम्बन्धाः नूतनासु ऊर्ध्वतासु मार्गदर्शिताः भविष्यन्ति । प्रधानमन्त्रिणा उक्तं यत् एषा साझेदारी केवलं साहाय्यम् एव नास्ति, अपितु अस्माकं साधारणभविष्यस्य निवेशः एव।






