
देहरादून/वार्ताहर:। मुख्यमन्त्री पुष्करसिंह धामी मुख्यातिथिरूपेण उत्तराखण्ड डिप्लोमाअभियंतामहासंघस्यअधिवेशनं सम्मिलितवान्। अस्मिन् समये मुख्यसचिवः आनन्दवर्धनःअपि कार्यक्रमेउपस्थितः आसीत्। मुख्यमन्त्री पुष्करसिंहः अधिवेशनस्य आयोजनार्थं डिप्लोमा अभियंता महासंघस्य अभिनन्दनं कृतवान्। अहमदाबाद विमान दुर्घटनेमृतानां कृते श्रद्धांजलिःकृता। उत्तराखण्ड डिप्लोमा अभियंता महा संघस्य अधिकारिणः सम्बोधयन् मुख्यमन्त्री अवदत् यत् स्वक्षेत्रे ईमानदारी, परिश्रमं, समर्पणं च सह कार्यं कुर्वन्तु। अद्य अस्माकं राज्यं प्रत्येकस्मिन् क्षेत्रे आदर्शं भवति। उत्तराखण्डं देशे विदेशेषु च प्रशंसितं वर्तते। उत्तराखण्डस्य प्रवासीजनाः अन्येषु देशेषु गौरवं अनुभवन्ति। अत एव अस्माकं दायित्वं अधिकं वर्धते। मुख्यमन्त्री उक्तवान् यत् राज्य सर्वकारस्य प्रयत्नात् राज्ये बेरोजगारीदरः न्यूनः भवति। सीमा क्षेत्रे उपविष्टाः जनाः अधुना स्वास्थ्यसेवानां अन्य योजनानां च लाभं प्राप्नुवन्ति। शीघ्रमेव ऋषिकेश कर्णप्रयाग रेलमार्गस्य स्वप्नः साकारः भविष्यति, एतेन चारधामयात्रायाः स्थानीयजनस्य च महत् लाभः भविष्यति।तस्मिन् एव काले अस्माकं सर्वकारः राज्यं देशस्य अग्रणीराज्यं कर्तुं निरन्तरं कार्यं कुर्वन् अस्ति।






