प्रयागराज:। वार्ताहर:। सतुआबाबा प्रयागराजनगरे माघमेलायाः भूमिविनियोग प्रक्रियायाः विषये विरोध प्रदर्शने उपविष्टवान्। सः भूमि विनियोगे स्वस्य अप्रसन्नतां प्रकटितवान। सः पूर्वं महाकुम्भमेलायां विरोध प्रदर्शने उपविष्टः आसीत्। मंगलवासरे मेला प्राधिकरणेन खाक चौकस्य भूमिविनियोगः क्रियते स्म। सर्वे साधवः ऋषयः च भूमिविनियोगाय संगमम् आगताः आसन्, सतुआबाबा इत्यस्मै गङ्गायाः तटे खाकचौकः आवंटितः आसीत्। परन्तु दलदलस्थित्याः कारणात् तस्य भूमिः अर्धभागः स्वस्य क्षेत्रे एव पतिता। तेन अप्रसन्नः स मेला प्राधिकरणम् आगत्य सर्वैः साधूभिः ऋषिभिः सह अग्निनाप्रज्वालयन्विरोधेउपविष्टः।सःमेला-अधिकारिभिः सह स्वस्य अप्रसन्नतां प्रकटितवान्। पूर्वं महाकुम्भस्य समये सतुआबाबा विरोधप्रदर्शने उपविष्टः, भूमिविनियोग प्रक्रियायाः विषये स्वस्य नाराजगीं प्रकटयन् मेला-अधिकारिणां विरुद्धं गम्भीरान् आरोपं कृतवान् मेला प्राधिकरणं नम्रतां कर्तुं बाध्यम् अभवत्। अद्य पुनः सः माघमेलायाः भूमिविनियोग प्रक्रियायाः विषये स्वस्य अप्रसन्नतां प्रकटितवान्। सतुआबाबा मुख्यमन्त्रिणः समीपस्थः अस्ति सतुआ बाबा मुख्यमन्त्री योगी आदित्य नाथस्य अतीव समीपस्थः अस्ति। सः पूर्वं माघमेला समीक्षा समागमस्य समये मुख्यमन्त्रिणा सह आसीत्।






