
देहरादून/वार्ताहर:। मुख्यमन्त्री पुष्करसिंह धामी स्वगृह क्षेत्रस्य खातिमायाम् भ्रमणं कुर्वन् अस्ति। शनिवासरे प्रातःकाले मुख्यमन्त्री स्वक्षेत्रेषु हलं कुर्वन् दृष्टः। धानरोपणकाले मुख्यमन्त्री कृषकाणां मध्ये अपि गतः। प्रथमं मुख्यमन्त्री क्षेत्रं हलं कृत्वा ततः कृषकैः सह धानं रोपयित्वा कृषकाणां परिश्रमं, त्यागं,समर्पणं च श्रद्धांजलिम् अयच्छत्। तत्र उपस्थिताः जनाः अपि तेषु मुख्यमन्त्री अस्ति इति प्रसन्नाः दृश्यन्ते स्म। क्षेत्रे आगत्य पुरातनकालस्य स्मृतयः स्फूर्तिं प्राप्तवन्तः इति मुख्यमन्त्री अवदत्। मुख्यमन्त्री उक्तवान् यत् कृषकाः केवलं अस्माकं अर्थव्यवस्थायाः मेरुदण्डः एव न सन्ति, अपितु ते अस्माकं संस्कृतिपरम्पराणां वाहकाः अपि सन्ति। अस्मिन् अवसरे मुख्यमन्त्री उत्तराखण्डस्य समृद्ध सांस्कृतिकविरासतां’हुडकिया बौल’ इत्यस्य माध्यमेन भूमिदेवस्य, जलदेवस्य इन्द्रस्य, छाया देवस्य मेघस्य च पूजां कृतवान् मुख्यमन्त्रिणः एषः सांस्कृतिकः सम्बन्धः, कृषकैः सह हृदयस्पर्शी सहभागिता च गभीरस्तरस्य क्षेत्रीयजनानाम् प्रेरणाम् अयच्छत्। मुख्यमन्त्री धामी इत्यस्य एषा उपक्रमः उत्तराखण्डस्य ग्रामीणसंस्कृतेः, कृषकाणां महत्त्वस्य, पारम्परिकलोक कलानां च संरक्षणाय प्रेरणादायकं सोपानम् अस्ति।

