लखनऊ। वार्ताहर:। मार्गपरिवहनसुविधानां विस्तार: भवति। लखनऊ (विभूतिखण्ड, गोमतीनगर), गाजियाबाद (पुराना), प्रयागराज (सिविल लाइन्स), अयोध्या, लखनऊ (अमौसी), तथा कौशाम्बी (गाजियाबाद) इत्यत्र बसपोर्टस इत्येषां निर्माणं भविष्यति। उत्तरप्रदेशे प्रतिदिनं कोटिकोटिजनाः बसयानेन गच्छन्ति। वर्धमानं जनसंख्यां परिवहनस्य आवश्यकतां च दृष्ट्वा अधुना राज्यस्य बसयानसंरचनायाः आधुनिकीकरणे, सुदृढीकरणे च बलं दीयते। एतदर्थं राज्यस्य विभिन्ननगरेषु आधुनिक बस बन्दरगाहानां विकासः क्रियते, ये पारम्परिक बस स्थानकानाम् अपेक्षया अधिकं सुविधाजनकाः उन्नताः च भविष्यन्ति।






