मानवजीवनस्य कौशलं संस्कृतभाषया एवं सम्भवति-जितेन्द्रप्रतापसिंह:

आचार्यदीनदयालशुक्ल:/लखनऊ। अद्य जनवरी मासस्य गुरुवासरे प्रथममासस्य अष्टमदिनाङ्के संस्कृत भारत्याः कर्णपुर-अवधप्रान्तयोः आवासीय शीतकालीन प्रबोधनवर्गस्य सम्पूर्तिकार्यक्रमस्य आरम्भ: वैदिकमङ्गलाचरणेन दीपप्रज्वालनेन च समपद्यत। तत्र मुख्यातिथित्वेन उच्चशिक्षोत्तरप्रदेशशासनस्य विशेष सचिव: श्रीगिरिजेशकुमारत्यागीवर्य: समागच्छन्। विशिष्टातिथित्वेन च न्यासाध्यक्ष: श्रीमान् जितेन्द्रप्रताप सिंह: उपस्थितोऽभवत्। अथ च लखनऊ नगरस्य निराला नगरे स्थिते जे॰सी॰-अतिथिगृहे आयोजितेऽस्मिन् कार्यक्रमे अवध प्रान्ताध्यक्षः डॉ॰चन्द्रभूषण त्रिपाठी प्र.निदेशक: तथा वर्गाधिकारी रूपेण संस्कृतभारत्याः क्षेत्रप्रचार प्रमुखः जे॰पी॰ सिंहश्च अतिथिरूपेण समुपस्थितौ आस्ताम्। अतिथय: प्रप्राक् दीपं प्राज्वालयन्। अस्य वर्गस्य समापनकार्यक्रमे आदौ छात्रैः वैदिकं मङ्गलाचरणं कृतं तदनन्तरम् अध्याय मन्त्र पाठः अभवत्। संस्कृत्मय वातावरण निर्माणाय संस्कृतगीतादीनाम् आचरणमपि कृतम्। पुनः अतिथीनां परिचयः स्वागतञ्चाकारि। मुख्यातिथि: श्रीमान् त्यागिवर्य: न्यगदत् यत् संस्कृतेनैव भारतस्य परिचयोऽस्ति। संस्कृतभाषा प्राचीना तु वर्तते एव साकमेव सा नित्यानूतना अप्यस्ति। वर्गेऽस्मिन् सामूहिकजीवनस्य कौशलं विदित्वा संस्कृतभाषायाः कृते सामूहिकं कार्यं विधाय समाजे संस्कृतप्रचारं कृत्वा भारतस्य स्वकीयां मूलभाषां संस्कृतिञ्च समाजस्य प्रत्येकं जनं यावत् प्रापय्य भारत मातरं परमवैभवं प्रति नेतुं सज्र्ल्पं स्वीकुर्वन्तु। संस्कृत भारती एतत् कार्यं द्रुतगत्या करोति यतः संस्कृतेनैव भारतस्य भाग्योदयो भविष्यति। अवसरेऽस्मिन् संस्कृत भारत्याः कार्यकर्तृषु धर्मेन्द्रः संस्कृतभारत्याः पूर्वोत्तर प्रदेशस्य क्षेत्रसङ्घटनमन्त्री पण्डितप्रमोदः डॉ॰ श्यामलेशः, रत्नेशत्रिपाठी, विभाग संयोजकचित्रकूटं डॉ. प्रदीपनारायण शुक्ल इत्यादयः उपस्थिताः आसन्। संस्कृतभारत्या अवधप्रान्तस्य प्रान्तमन्त्री अनिलोऽपि तत्र समधितिष्ठत। स सूचितवान् यत् एतेषां प्रबोधनवर्ग सदृशानाम् आवासीय वर्गाणा मायोजनं शीतकालीने अवकाशे समाजे क्रियते यत्र संस्कृत व्यवहारमाध्यमेन पठनं लेखनं भाषणञ्च शिक्ष्यते। सङ्घटनस्य दृढीकरणं संवर्धनं कार्यकर्तृणां समायोजनञ्च साधयितुं समये समये एतादृशाः विविधाः कार्यक्रमाः विधीयन्ते। एष वर्ग: द्वितीयदिनाज्रत् आरभ्य अष्टमदिनाज्र्ं यावत् प्राचलत्। यस्मिन् कर्णपुर-अवध प्रान्तयोः विविधाः कार्यकर्तारः वर्गार्थिनश्च भागं ग्रहीतवन्त:। अस्य कार्यक्रमस्य सम्पूर्तिसत्रे पञ्चाश दधिकाः वर्गार्थिनः उपस्थिताः आसन् ये विविधैः प्रशिक्षकैः समये समये प्रशिक्षणं प्राप्य संस्कृत भारत्या: कार्यकर्तार: भविष्यन्ति। वर्गार्थिनः वर्गस्यानुभव कथनं प्रस्तुतवन्त: तथा गीतं श्रावितवन्त:। वर्गस्यास्य वर्गाधिकारी रूपेण सेवानिवृत्ताभियंता श्रीमान धर्मेन्द्र सिंहवर्य: सर्वेभ्य: धन्यवाक् समर्प्य वर्गस्यास्यसम्पूर्तिः घोषणामकरोत्।

  • editor

    Related Posts

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    देहरादून/वार्ताहर:। हरिद्वारनगरे देवसंस्कृति विश्वविद्यालयेन आयोजिते ध्वजारोहण समारोहे मुख्यमन्त्री पुष्करसिंह धामी, केन्द्रीय संस्कृति पर्यटन मन्त्री गजेन्द्रसिंह शेखावतः च भागं गतवन्तौ।वक्तारः गायत्री परिवारस्य शताब्दी समारोहं भारतीय संस्कृतेः,सेवायाः, आध्यात्मिक व्यवहारस्य च पुन र्जागरणस्य…

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    आनन्द शुक्ल। २०२६ तमे वर्षे बीएमसी-निर्वाचने भाजपा-शिवसेना-सङ्घटनेन ऐतिहासिकं विजयं प्राप्तम्, एकैकंबृहत्तमं दलं रूपेण उद्भूतम्। एतेन विजयेन ठाकरे-परिवारस्य दशक त्रयपर्यन्तं कृतं वर्चस्वं समाप्तं भवति। बीएमसी-मध्ये २२७ वार्डेषु बहुमतस्य अंकः ११४ अस्ति,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 95 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 54 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 44 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 38 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 48 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 71 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page