


प्रयागराज:। वार्ताहर:। माघमेलापके एतेषु दिवसेषु ध्यान-भक्तिएवं योगाणां त्रिवेणी प्रवहति। माघमेलापके अक्षवट मार्ग स्थित शिविरे श्रीमद् आद्यजगद् गुरु शंकराचार्य वैदिक शोध संस्थानम् शिविरे परमहंस परिव्राजकाचार्य स्वामी श्री ज्ञानानन्द सरस्वती जी महाराजस्य मुखात् ज्ञानगंगा नि: सृता। भक्ता: तेन आशीर्वचसा अनुगृह्णन्ति। अपरेषु शिविरे त्रिवेणी मार्ग स्थित शिविरे जगदगुरु शंकराचार्य ज्योतिष्पीठ काशी पीठाधीश्वर ब्रहमलीन महाराजस्य उत्तराधिकारी स्वामी शाश्वतानन्द सरस्वती जी महाराजस्य सानिध्ये आशीर्वादा: फलन्ति, भक्ता: श्रोतारश्च आध्यात्मिक लाभं प्राप्नुवन्ति। ज्ञातव्यं यत् प्रयागराजस्य पुण्यभूमौ प्रतिवर्षं माघमासे ‘माघमेला’ आयोज्यते। एषः मेला विश्वस्य प्राचीनतमेषु धार्मिक मेलनेषु अन्यतमः अस्ति। गङ्गा-यमुना-सरस्वतीनां पवित्र सङ्गमे स्नानस्य अत्र विशेषं महत्त्वं वर्तते। पुराणेषु वर्णितं अस्ति यत् माघमासे सर्वे देवाः प्रयागम् आगच्छन्ति। अतः अस्मिन् समये त्रिवेणीसङ्गमे स्नानं कृत्वा मनुष्यः पापेभ्यः मुक्तः भवति। मकरसङ्क्रान्तिः, मौनी अमावस्या, वसन्तपञ्चमी च माघमेलायाः प्रमुखाणि स्नानपर्वाणि सन्ति। अस्मिन् अवसरे सहस्रशः साधवः, संन्यासिनः, भक्ताः च अत्र एकत्रिता:। बहवः भक्ताः पूर्णमासं यावत् सङ्गमटे ‘ कल्पवासं’ कुर्वन्ति। कल्पवासिनः सात्त्विकं भोजनं कुर्वन्ति, ईश्वरभजनं च कुर्वन्ति। माघमेला न केवलं धार्मिकं आयोजनं, अपितु भारतीयसंस्कृतेः एकतायाः च प्रतीकम् अस्ति।






