महामनामालवीयजयन्त्यवसरे ‘विमलकीर्ति महामना’ इति पुस्तकस्य लोकार्पणम्

वार्ताप्रेषकः- डॉ. मूलचन्द्रशुक्लः
धनबादम्/झारखण्डम्।
कार्यक्रमस्य शुभारम्भः अतिथिभिः सरस्वत्याः दीपप्रज्वालनेन,माल्यार्पणेन च जातः। विद्यार्थिभिः मङ्गलाचरणेन स्वागतगानेन काशी हिन्दुविश्व विद्यालयस्य सुललित कुलगीतगानेन च वातावरणं मन्त्रमुग्धं विहितम्। सर्वप्रथमम् अतिथीनां वचसा स्वागतपुरस्सरं कार्यक्रम संयोजकेन डॉ. विमलेन्द ुकुमार त्रिपाठिना भारतरत्न-महामना-पण्डित-मदनमोहन मालवीय जयन्ती,पुरातनच्छात्रसङ्गमश्चेत्युभयोः सम्बन्धे प्रास्ताविकी पुरस्कृता। अस्मिन्नवसरे मुख्यातिथिः डॉ. रामकुमार सिंहः (कुलपतिः, वि.वि.म.को. वि.वि.) मञ्चासीनाः आसन्। स्वकीय सम्बोधने तेनोक्तं यत् मालवीयजी महोदयानां शुचिता-चरित्र-ज्ञानस्य महत्त्वमित्यस्यतत्कालीन-पारतन्त्र्य-कालेशिक्षायाः अनिवार्यतायाश्च विषये तस्य दूरदर्शिता विशेषतः प्रदर्शिता।

तेन काशी-हिन्दू-विश्वविद्यालयस्य निर्माणे मालवीयस्य ‘भागीरथ-प्रयत्नस्य’ अपि चर्चा कृता।
विशिष्टातिथिरूपेण विनोबा-भावे-विश्वविद्यालयस्य (हजारीबाग) जन्तुविज्ञान-विभागाध्यक्षः उपस्थितः आसीत्।तेन छात्रान् प्रोत्सह्य मालवीयस्य संयम-ब्रह्मचर्ययोः सन्देशः विश्वे प्रसारयितुं आह्वानं पुरस्कृतम्।अपरः विशिष्टातिथिः प्रो. मृत्युञ्जयकुमार सिंहः पदस्य अहज्ररं त्यत्तäवा मालवीयस्य उदात्तशिक्षाणाम् अनुसरणाय बलं दत्तवान्। सारस्वतातिथिः रामगढ़-महाविद्यालयस्य प्राचार्या डॉ. रत्ना पाण्डेया मालवीयस्य आदर्शान् पाल्यमानानां गुरूणां संस्मरणानि श्रावितवती। कार्यक्रमस्य सञ्चालकः डॉ. शशिकान्त तिवारी ‘शशिधरः’ मालवीयस्य जीवनेन प्रेरितान् अनेकान् प्रसङ्गान् वर्णितवान्। कार्यक्रमस्य संरक्षकेण राष्ट्रपत्यादि विविधसम्मानसभाजितेन प्रो. कृष्णकान्त शर्ममहोदयेन प्रोक्तंयत्मानवःस्वकीय-आचरणेनैवआदर्शान् संस्थापयेत्। यदा तेषां स्वास्थ्यं दृष्ट्वा उपविश्य वक्तुं निवेदितम्,तदा तैरुक्तं यत ‘यावत् शक्तिः वर्ते,तावदुत्थायैव वक्तव्यम्।’ अग्रे तेनोक्तं यत् विश्वविद्यालयस्य अर्धचन्द्राकारस्य प्रतीके’स्थायित्वम’दरीदृश्यते।ग्रन्थ-विमोचनम्- अस्मिन्नवसरे डॉ. विमलेन्दु कुमार त्रिपाठिमहोदयेन सम्पादितस्य ‘विमल कीर्ति महामना’ इत्याख्यस्य पुस्तकस्य लोकार्पणं विद्वद्भिः विहितम्। महामना पण्डित-मदनमोहन मालवीय विषयका: विदुषां चतुर्विंशतिर्लेखा: अत्र पुरस्कृतास्सन्ति। अस्यसम्पादनं महामना-परिवार-झारखण्डस्य संयोजकेन डॉ.विमलेन्दुकुमार-त्रिपाठिना कृतम्। प्रकाशनञ्च प्रत्नकीर्ति-प्राच्य-शोध-संस्थानेन वाराणसी स्थेन जातम्। सांस्कृतिक-सन्ध्या: द्वितीयसत्रे मालवीयसम्बन्धिभजन-सन्ध्यायाः आयोजनं कृतम्,यत्र कनकझा आनन्दचौबे च सुललितगायनं कृतवन्तौ। मयज्र्कुमारः भक्तः तबला-वाद्येन सङ्गतिं कृतवान्।
राम-अचलयादवः अस्य सत्रस्य सञ्चालनं कृतवान्। आयोजन-समित्या कार्तज्ञ्यम् अस्य भव्य-आयोजनस्य संयोजकेन डॉ. विमलेन्दु कुमार त्रिपाठिना विहितम्, कोषाध्यक्षः मिथिलेश कुमारः,सहसंयोजकौ भुवन भास्कर-डॉ. शम्भू तिवारी च आसन्। आयोजनसमित्यां डॉ. सञ्जय सिंहः, मृत्युञ्जय मिश्रः इत्यादयः प्रमुखाः सदस्याः सक्रियाः आसन्। प्रथम सत्रस्य धन्यवाद-ज्ञापनं बालेन्दुशेखरत्रिपाठिना (गिरिडीह महाविद्यालयः) कृतम्, द्वितीयसत्रस्य च मृत्युञ्जयमिश्र- महोदयेन विहितम्। न केवलं झारखण्डात् अपितु विविध प्रान्तेभ्यः महामनापरिवाराच्च विद्वांसः कार्यकर्तारश्च समुपस्थिताः आसन्। यथा- डॉ. सञ्जय कुमार चौबे, डॉ. सत्येन्द्र पाण्डेय,डॉ. कौशलेन्द्र त्रिपाठी,डॉ. मनीष चन्द्र पाण्डेय,हृदयानन्द द्विवेदी, रजनी कान्त उपाध्याय, डॉ.चन्द्रमौलीश्वर पाण्डेय,डॉ. चिन्तामणि त्रिपाठी, डॉ. आशीष कुमार रायः,डॉ पारङ्गतखल्खो,डॉ. दीपककुमार सिंहः,डॉ. द्रविड़,डॉ. शशिकान्त पाण्डेयः,डॉ. पायल वर्मा, डॉ. सुनीताकुमारी,डॉ. विनीता तिर्की,राकेश पाठकः,डॉ. शनिकुमारचौबे,राजीव मिश्रः प्रभृतयः नैके जनाः।

  • editor

    Related Posts

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    शम्भूनाथ त्रिपाठा/प्रयागराज:। रविवासरेमाघ मेलायाःबृहत्तमःउत्सवः’मौनीअमावस्या’इति विश्वासस्य एतादृशः अपूर्वः समुद्रः दृष्टः यत् विश्वस्य अत्यन्तं विकसित राष्ट्राणि आधुनिकमहानगराणि च अपि संगमस्यवालुकाभिः बौनारूपेण दृश्यन्तेस्म एकस्मिन् दिने एव ४ कोटिभ्यः अधिकाः भक्ताः संगमतटेषु डुबकीं कृतवन्तः।…

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    नवदेहली। भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्। निर्वाचनप्रक्रियायां भागं ग्रहीतुं सर्वे भाजपा मुख्यमन्त्रिणः, राज्य-एककानां प्रमुखाः, अन्ये च प्रमुखाः नेतारः दलस्य मुख्यालये एकत्रिताः भविष्यन्ति। नबीनः दलस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 94 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 53 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 43 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 37 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 47 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 69 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page