मण्डलस्तरीया: संस्कृत प्रतिभान्वेषण प्रतियोगिताः पुरस्कार वितरणस्यायोजनं

डॉ. विजय पयासी/चित्रकूटम् । उत्तरप्रदेशसर्वकारस्य भाषा विभागान्तर्गतम् उत्तरप्रदेशसंस्कृतसंस्थानम्, लखनऊ द्वारा चित्रकूटमण्डले संस्कृतप्रतिभा-अन्वेषण प्रतियोगिता २०२५ इति मङ्गलवासरे अगस्तमासस्य १९ दिनाङ्के आयोजिता। आयोजनमिदं जयदेववैष्णव-संस्कृत महाविद्यालयःकर्वी,चित्रकूटम् इत्यत्र समभवत्। यस्मिन् चित्रकूटमण्डलस्य बांदा, महोबा, चित्रकूटम्, हमीरपुरम् इत्येतेभ्यः ४० तः अधिकानां प्रतिभागिनां कृते संस्कृतगीतानि, संस्कृत-अन्त्याक्षरी, संस्कृत सामान्य ज्ञानम् इति चतुर्विध प्रतियोगितासु विद्यार्थिनः समुपस्थाय भागं गृहीतवन्तः। प्रथमं द्वितीयं तृतीयं च स्थानं प्राप्तवदन्तः विजेतारः स्मृतिचिह्नेन प्रमाणपत्रादिभिश्च च पुरस्कृताः। अन्ये प्रतिभागिनः सान्त्वना पुरस्कारेण सम्मानिताः। श्रीजयदेव वैष्णव-संस्कृत महाविद्यालयस्य प्राचार्येण डॉ. मनोजकुमारद्विवेदिना समेषामतिथीनां स्वागतं व्यधायि। स्वसम्बोधने सः संस्कृतं भारतस्य आधारः इति विवर्ण्य संस्कृतभाषायाः रक्षणे स्वस्य प्रमुखा भूमिका भवेदिति उक्तवान्। तद्विना भारतीय संस्कृतेः कल्पना असम्भवमित्यपि उक्तवान्। पुरस्कार वितरण समारोहस्य विशिष्टातिथिः रामनगरस्य पीएनजी राजकीयस्नातकोत्तरमहाविद्यालयात् संस्कृतविभागप्रमुखः डॉ. मूलचन्दशुक्ल: आसीत्। मुख्यभाषणे तेन प्रोक्तं यत् सर्वेपि विजेतारः वर्धापनयोग्याः वरीवृत्यन्ते।डॉ. शुक्लेन निगदितं यत् विद्यार्थिभिः सर्वविषयाणाम् अध्ययनेन सह एतादृशेषु विविधेषु उपक्रमेष्वपि प्रतिभागः गृहीतव्यः। अग्रे तेन प्रोक्तं यत् संस्कृतस्य विभिन्नक्षेत्रेषु स्वकौशलस्य विकासाय प्रतियोगिपरीक्षासु साफल्यमवाप्तुं च छात्राः अग्रेसरेयुः। आचार्यः डॉ. पूर्णेन्दु मिश्रः सर्वेभ्यः प्रतिभागिभ्यः समानोर्जया सह भागं गृहीतुमाह।
समारोप समारोहे मुख्यातिथि: प्रबन्धक: महन्तः रमाशंकर दास: अन्यैः अतिथिभिस्सह विजेतृ प्रतिभागिभ्यः प्रमाणपत्रम् प्रदाय प्रोत्साहनं विहितम्। संस्था द्वारा नामित: मण्डलसमन्वयक: डॉ. विजयपयासी इत्यनेन उक्तं यन्मण्डलस्तरे प्रथमं द्वितीयं च स्थानप्राप्त प्रतिभागिन: राज्यस्तरे भागग्रहणं कर्तुमर्हाः भविष्यन्ति। सोऽवदत् यत् संस्कृतगीते आख्यासिंह श्रीजीअन्ताराष्ट्रिय विद्यालयस्य ऋतुयादवः द्वितीयस्थानं, जवाहरलालनेहरू महाविद्यालयः बांदा इत्यस्य छात्रा च तृतीयस्थानं प्राप्तवती। तथैव श्री भुवनेश्वरीगुरुकुलझलोखरहमीरपुरस्य अभिनव दीक्षितः प्रथमस्थानं प्राप्तवान्।
संस्कृतसामान्यज्ञानस्य बालवर्गप्रतियोगितायाम् आयुष ग्राम गुरुकुलम् बेडीपुलिया इत्यस्य उत्कृष्टछात्रः संस्कृत मिश्रः, प्रथमस्थानं, श्रीदुर्गासंस्कृत महाविद्यालय महोबा-नगरस्य हरिओमः द्वितीयं, राजाराम-इण्टर-विद्यालय-झालोखरम् ,हमीरपुरम् इत्यस्य छात्रः सुयशः तृतीयं स्थानं च प्राप्तवन्तः।संस्कृत सामान्य ज्ञानयुव वर्गे जवाहर लाल नेहरू महाविद्यालय बान्दाइत्यस्य पंकज कुमारः प्रथमस्थानं, विष्णुकान्त द्वितीय स्थानं,तत्रत्यः छात्रः तृतीयस्थानं च प्राप्तवन्तः। रामनगर महाविद्यालय तः डॉ. मूलचन्द्र शुक्ल:, फतेहपुरात् डॉ. यीशनारायणद्विवेदी, महोबात: डॉ. योगेशकुमारशुक्ल:,चित्रकूटात् डॉ. जगत नारायण द्विवेदी,बांदात: नरेन्द्रमिश्र:,बांदात: डॉ. सर्वेश तिवारी, औरैयात: प्राचार्य: डॉ. पूर्णेन्दुमिश्र: डॉ. सर्वेश कुमार शाण्डिल्य श्च निर्णायक रूपेण समुपस्थिता आसन्। कार्यक्रमस्य अन्ते संयोजकेन संस्कृत संस्थान पक्षतःसर्वेपिआगन्तुकाः मुख्यातिथयः, विशिष्टा तिथयः, सारस्वताति थयः, निर्णायकाः, प्राध्यापकाः, आगन्तुकाः अभिभावकाः,विद्यार्थिनः,अनेकेभ्यः विद्यालयेभ्यः संस्कृत विद्यापीठादिभ्यश्चसमागताःशिक्षकाः,प्राचार्याः, जिज्ञासवः नगरस्य प्रख्यात नागरिकाः, पत्रकार बन्धवः च धन्यवादैः सभाज्यन्ते। कार्यक्रमस्य संचालनं डॉ. यीशनारायणद्विवेदिना विहितम्।

  • editor

    Related Posts

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    शम्भूनाथ त्रिपाठा/प्रयागराज:। रविवासरेमाघ मेलायाःबृहत्तमःउत्सवः’मौनीअमावस्या’इति विश्वासस्य एतादृशः अपूर्वः समुद्रः दृष्टः यत् विश्वस्य अत्यन्तं विकसित राष्ट्राणि आधुनिकमहानगराणि च अपि संगमस्यवालुकाभिः बौनारूपेण दृश्यन्तेस्म एकस्मिन् दिने एव ४ कोटिभ्यः अधिकाः भक्ताः संगमतटेषु डुबकीं कृतवन्तः।…

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    नवदेहली। भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्। निर्वाचनप्रक्रियायां भागं ग्रहीतुं सर्वे भाजपा मुख्यमन्त्रिणः, राज्य-एककानां प्रमुखाः, अन्ये च प्रमुखाः नेतारः दलस्य मुख्यालये एकत्रिताः भविष्यन्ति। नबीनः दलस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 96 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 55 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 45 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 39 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 52 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 75 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page