
भूमिदत्त मिश्र/नवदेहली। दिल्ली विश्वविद्यालयस्य लेडी श्री राम महाविद्यालयस्य आन्तरिकगुणवत्ता आश्वासन प्रकोष्ठेन तथा दिल्ली विश्वविद्यालयस्य लेडी श्री राम महाविद्यालयस्य संस्कृत विभागेन दिल्ली संस्कृत अकादमी सहकारेण ‘भारत बोधः प्राचीन भारतीय ज्ञानं तस्य समकालीन सान्दर्भिकता च’ इति विषये द्विसप्ताहात्मकः ऑनलाइन प्रमाण पत्र पाठ्यक्रमः ९ जूनतः २३ जून २०२५ पर्यन्तं सफल तया सम्पादितः। एलएसआर समर स्कूल-२०२५ इत्यस्य ‘धरोहरः भारतीय संस्कृतेः झलकाः’ इति व्यापक विषयेण अयं कार्यक्रमः आयोजितः आसीत्। पाठ्य क्रमस्य उद्घाटन सत्रं ९ जून दिनाङ्के महाविद्यालय परिसरस्य भव्यरूपेण आयोजितम्, यस्मिन् मुख्यातिथि रूपेण माननीय सांसदः सुश्री बंसुरी स्वराजः, विशेषा तिथि रूपेण च प्रो. कार्यक्रमस्य अध्यक्षता प्रो.कनिका के.आहूजा (कार्यकारी प्राचार्य, एल.एस.आर. अकुर्वन्। २३ जून २०२५ दिनाङ्के आयोजिते समापनसत्रे मुख्यातिथि रूपेण प्रो.भारतेन्दु पाण्डेयः (अध्यक्षः, संस्कृत विभागः, दिल्ली विश्वविद्यालयः) तथा विशेषा तिथि रूपेणडॉ. अरुण कुमार झा (सचिवः,दिल्ली संस्कृताकादमी) उपस्थितः आसीत्। अधिवेशनस्य पुनः अध्यक्षता प्रो. कनिका के.समापन सत्रे प्रतिभागिनां अनुभवाः साझाः कृताः, प्रमाण पत्र वितरणस्य औपचारिक घोषणा च कृता।






