वार्ताहरः-डॉ. मूलचन्द्रशुक्लः/हरिद्वारम्/भारतीय प्राच्यविद्यायाः मनीषिणे, कुशल प्रशासकाय, छात्रवत्सलाय समादरणीयाय आचार्यर माकान्तपाण्डेयमहोदयाय उत्तराखण्ड संस्कृत विश्वविद्यालये, हरिद्वारे कुलपतिरूपेण नियुक्तये वयं हार्दमभि नन्द नानि शुभाशंसाश्च समर्पयामः। प्रो. रमाकान्त पाण्डेयवर्यः संस्कृत वाङ्मया न्तर्गत विशेषरूपेण संस्कृत साहित्ये, काव्यशास्त्रे, नाट्यशास्त्रे, भारतीय ज्ञानपरम्परा सन्दर्भे च एकः प्रख्यातः मेधायुतो विद्वान् वरीवर्ति। भवता दीर्घकाल पर्यन्तं अध्यापन-अनुसन्धान-मार्गदर्शन-शैक्षणिक नेतृत्वादिभिः संस्कृत विद्यायाः भारतीय विद्यायाश्चक्षेत्रं समृद्धीकृतम्। भवता सम्पादितानिशोधकार्याणि, ग्रन्थ लेखनम्, सम्पादन कर्म, शोधार्थिनां निर्देशनं च इत्यादीनि महत्त्वपूर्णानि प्रशस्त कार्याणि प्रतिबद्ध विद्वत्त्वस्य सुदृढं प्रमाणम्। केन्द्रीय संस्कृत विश्वविद्यालयस्थ-भोपाल-जयपुर-परिसरयोः निदेशक पदस्य महत्त्वपूर्णं दायित्वं निर्वहता भवता शैक्षणिक गुणवत्ता, अनुसन्धान संस्कृतिः, संस्थागतानुशासनं च नवदिशामा नीतम्। भवतः व्यक्तित्वे विद्वत्तया सह प्रशासनिक कौशलं विशेषरूपेण संयुज्यते। एकतो भवतः शास्त्रसम्मतं गहनं गभीरञ्चाध्ययनं सर्वत्र प्रशस्यते, अपरतश्च भवतः दृष्टिः व्यावहारिकी, दूरदर्शिनी, कर्मठ-युता च सन्तिष्ठति। छात्रहिताय, अध्यापक सम्माननाय, विश्व विद्यालयस्य सर्वाङ्गीण विकासाय च भवतः निष्ठा सर्वविदिता चकास्ति। एतादृशस्य विदुषः उत्तराखण्ड संस्कृत विश्वविद्यालयस्य कुलपतिरूपेण नियुक्तिः संस्कृत शिक्षायाः भारतीय ज्ञान विज्ञानस्य च क्षेत्रे नितरां मङ्गलकारिणी भविष्यति। कुलपति वर्येण वार्ताक्रमे प्रोक्तं यत् उत्तराखण्ड संस्कृत विश्वविद्यालयः न केवलं शैक्षणि कौत्तम्यस्य नूतनमानदण्डान् स्थापयिष्यति, अपितु अनुसन्धानम्, नवाचारः, पाण्डुलिपि शास्त्रम्, लोकविज्ञानम्, योगः, दर्शनम्, भारतीयज्ञान परम्पराणां संरक्षण–संवर्धनं च कृत्वा एकं सशक्तं ज्ञानकेन्द्रं भविष्यति। अग्रे तेनोक्तं यत् एष: विश्वविद्यालयः राष्ट्रियस्तरे अन्ताराष्ट्रिय स्तरे च भारतीयविद्यायाः प्रभावशाली प्रतिनिधिरूपेण प्रतिष्ठां प्राप्स्यति। अस्मिन् शुभावसरे वयं प्रार्थयामः यत् भवान् उत्तमस्वास्थ्येन, दीर्घायुषा, अपारयशसा च एतद् दायित्वं सफलतया निर्वहन् संस्कृतविद्यां भारतीयज्ञानपरम्परां च नूतनशिखराणि प्रति नेतुं समर्थो भवतु।
उत्तराखडस्य मान.राज्यपाल – महोदयैः विश्वविद्यालयस्य च कुलाधिपतिभिः ले.ज. गुरमीत सिंह वर्यैः प्रो. रमाकान्त पाण्डेय वर्यः कुलपतिपदे नियुक्तः। प्रो. पाण्डेयवर्यः उत्तरप्रदेशस्य चित्रकूटस्थस्य सकरौंहा इतिग्रामस्य वास्तव्यो प्रस्थातः मूर्धन्यश्च मनीषी वर्तते।अस्य अनुजः सुकविः, लेखकः डा. उदित-नारायण -पाण्डेयः उत्तर-प्रदेश-सर्वकारे ए.आर.टी.ओ. प्रवर्तन-पदे नियुक्तो वर्तते।






