

प्रयागराज:। वार्ताहर:। इलाहाबाद केन्द्रीय विश्वविद्यालयस्य विज्ञानसंकाये एकः अद्वितीयः उपक्रमः कृतः। विज्ञानसंकायस्य वैज्ञानिकः डॉ. ऋतुकपूरः ‘इल्ह ैग्ूप् ण्पस्ग्ेूrब्’ इति कार्यशालायाः आयोजनं कृतवान्। कार्यशालायां पुस्तकात्मक ज्ञानं व्यावहारिकजीवनेन सह सम्बद्ध्य छात्राणां व्याख्यानं कृतम्। छात्राणां कृते कथितं यत् रासायनिक विक्रियाः दैनन्दिन जीवने कथं कार्यं कुर्वन्ति। अनेन विज्ञानं रोचक विषयत्वेन प्रस्तुतम्। कार्यशालायाः एकः महत्त्वपूर्णः पक्षः अन्धविश्वासस्य विज्ञानस्य च भेदं स्पष्टीकर्तुं आसीत्। नारिके घृतं पातुं निम्बूतः रक्तं निर्गच्छति अग्निः वा इत्यादीनां तथाकथितानां चमत्कारानाम् पृष्ठतः वैज्ञानिक प्रक्रियाः व्याख्याताः कार्यक्रमे रासायनिक साधन प्रदर्शनस्य आयोजनं कृतम्। सूक्ष्मदर्शी, बीकर, परीक्षणनली इत्यादीनां प्रयोगशाला साधनानाम् लाइव प्रदर्शनं कृतम्। एतत् प्रदर्शनं छात्राणां भविष्ये अध्ययने सहायकं भविष्यति।
डॉ. ऋतुकपूरः विज्ञानं जीवनेन सह सम्बद्धं रोचकं उदाहरणं दत्तवान्। सा अवदत् यत् विज्ञानं केवलं प्रयोगशालायां एव सीमितं नास्ति। मानवसम्बन्धानां अवगमने अपि साहाय्यं करोति। सा पतिपत्न्याः रासायनिक सन्तुलनस्य उदाहरणं दत्त्वा विज्ञानं रोचकरीत्या व्याख्यातवती।