प्रयागराज:। वार्ताहर:। माघमेलायाः सज्जतायाः आकलनाय, कस्यापि आपत्कालस्य प्रभावीरूपेण निवारणाय च सोमवासरे प्रयागराज नगरे एकः प्रमुखः नकली अभ्यासः कृतः। अभ्यासस्य समये माघमेला क्षेत्रात् नगरस्य प्रमुख क्षेत्राणि यावत् भीड प्रबन्धनार्थं विनिर्मितानां १० आकस्मिक योजनानां पूर्वाभ्यासः कृतः नकली अभ्यासस्य भागरूपेण नगरेमाघमेलाक्षेत्रे च १० भिन्न स्थानानि चिह्नितानि, यत्र सम्भाव्य आपातकालस्य पूर्वानुमानं कर्तुं तस्याः प्रभाव शीलतायाः आकलनाय आकस्मिक योजना कार्यान्विता अभवत् पूर्वाभ्यासस्य समये आकस्मिक योजनानुसारं यातायातस्य मार्गं परिवर्त्य नियमनं कृतम्। डीसीपी सिटी जीटी जवाहर स्क्वेर् इत्यत्र कार्यभारं स्वीकृतवती डीसीपी सिटी मनीषकुमार शाण्डिल्यस्य नेतृत्वे माघ मेलायां मुख्यप्रवेशस्थाने जीटी जवाहरचतुष्कोणे आकस्मिक योजनायाः पूर्वाभ्यासः कृतः। तस्य सह अनेके वरिष्ठाः पुलिस-अधिकारिणः उपस्थिताः आसन्।

माघमेला क्षेत्रे विभिन्न स्थानेषु पूर्वाभ्यासः माघमेला क्षेत्रस्य अन्तः विभिन्नेषुस्थानेषुविभिन्नाधिकारिणां नेतृत्वे आकस्मिक योजनानां पूर्वाभ्यासः अपि कृतः। अधिकारिणः अवदन्यत् कुलम्१० आकस्मिक योजनाः निर्मिताः, येषु आकस्मिक योजना क्रमाज्र्ः १, क्रमाज्र्ः २ च माघमेला क्षेत्रे पूर्वाभ्यासः कृतः, यदा तु आकस्मिक योजनाक्रमाज्र्ः३ जीटी जवाहर चतुष्कस्य पूर्वाभ्यासः कृतः आकस्मिक योजनायाः पूर्वाभ्या सस्य समये आयुक्त पुलिसस्य, मेला पुलिसस्य, मेला प्रशासनस्य च सर्वे वरिष्ठ अधिकारिणः माघमेला प्राधिकरण कार्यालये स्थिते (कमाण्ड एण्ड कंट्रोल सेण्टर) इत्यत्र उपस्थिताः आसन्। ततः सम्पूर्णस्य अभ्यासस्य निकटतया निरीक्षणं कृतम्। आकस्मिक योजना जनसमूह प्रबन्धनार्थं प्रयुक्ता आपत्कालीन योजना अस्ति। एषा योजना तेषु परिस्थितौ कार्यान्विता भवति यत्र सहसा महती जनसमूहः आगच्छति तथा च सामान्य यान व्यवस्थाः स्थितिं नियन्त्रयितुं न शक्यन्ते। महाकुम्भमेलायां यदा सहसा जनसमूहस्य दबावः वर्धितः तदा विभिन्नेषु मार्गेषु आकस्मिक योजनाः कार्यान्विताः, येन आपत्कालीनस्थितौ जन समूहस्य नियन्त्रणे साहाय्यं कृतम्।
अधिकारिणः अवदन् यत् -एसपी मेला नीरज पाण्डेयइत्यस्यमतेमाघमेलायां कस्यापि अप्रत्याशित स्थितेः निवारणाय तत्परतायाः, समन्वयस्य, शीघ्र प्रतिक्रियायाः च परीक्षणं कृत्वा भक्तानाम् सुरक्षां सुचारुगतिः च सुनिश्चित्य नकली अभ्यासस्य उद्देश्यम् अस्ति।






