बरेली। वार्ताहर:। यूपीबाङ्गलादेशीय-रोहिंग्या-संदिग्धानां पहिचानाय प्रयासान् तीव्रमभवत्। बरेली जनपदस्य जिलाधिकारी, वरिष्ठ पुलिस अधीक्षक आदि अधिकारिभि: संदिग्धानां अभिज्ञानं अभियानं तीव्रं जातम्। बरेली-डीएम-एसएसपी प्रभारं गृह्णाति। मुख्यमन्त्री योगी आदित्यनाथस्य निर्देशानुसारं राज्ये सर्वत्र अवैध रूपेण निवसतां विदेशीयानां नागरिकानां अभिज्ञानाय बृहत परिमाणेन अन्वेषण-सत्यापन-अभियानं प्रारब्धम् अस्ति। अस्मिन् विषये शनिवासरे बरेली प्रशासनं कार्यरतम् आसीत्। बारादरी थाना क्षेत्रे प्रातःकाले विशालः अन्वेषणकार्यक्रमः आरब्धः, यस्य विषये जिलादण्डाधिकारी अविनाशसिंहः, वरिष्ठपुलिसअधीक्षकः अनुराग आर्यः, पुलिसनगराधीक्षकः मनुषपारीखः च स्थले एव कार्यस्य निरीक्षणार्थं उपस्थिताः आसन्।






