डा चन्द्र भूषण द्विवेदी। सम्भवतः मानव- सभ्यताया: इतिहासे प्रथमवारं इतिहास ज्ञानाम् अपेक्षया अस्थय: अधिकस्वरयुक्ता: भविष्यन्ति। एतत् विषये मृत्युंजय मिश्र: नवदेहलीनगरस्य एकस्य वार्तपत्रे २०२५ नवम्बर-मासस्य ५ दिनांके जागरण- विशेषरूपेण प्रतिवेदनं प्रकाशितवान्। इलाहाबाद-विश्वविद्यालये( इवि) अपि एतादृशानि १५० मानव- अस्थिपंजरानि सन्ति, ये उत्तरप्रदेशस्य प्रतापगढ़- जनपदे प्राप्ता: सन्ति। एतेषां मानव- अस्थिपंजरानां डि. एन्. ए. – परीक्षणं विश्व- इतिहासे नूतनं अध्याय: उद्घाटयितुं शक्नोति, सम्भवतः तत् परिवर्तयितुं च शक्नोति। हिसारस्य ( हरियाणा) राखीगढ़ी इत्यस्य अस्थिपंजरात् जगत: ज्ञातम् आसीत् यत् सिन्धु- उपत्यका- सभ्यता कस्यापि विदेशीय- वंशस्य उपहार: नास्ति अपितु भारतवर्षस्य मूल सभ्यता अस्ति इति। लख्नौ-नगरस्य बीरबल-साहनी-पुरा-वनस्पतिशाष्त्र-संस्थाया:(बीएसआइपी) विज्ञानीया: एतेषां प्राचीनतमानां अस्थिपंजराणां ( प्रायः ७००० ईसापूर्व) डि. एन्. ए. इत्यस्य अध्ययनं कर्तुं आगमिष्यन्ति। १९७३ त: १९८० पर्यन्तं प्रतापगढ़स्य दमदमा,महदहा,सरायनाहरंइत्येतेषु स्थलेषु येषां उत्खननं अभवत्। तेषां डि. एन्. ए. पठित्वा न केवलं मानव संस्कृते: सभ्यताया: च अपितु, भारतीय- उपमहाद्वीपस्य प्राचीनताया:पुनर्परिभाषयितुंशक्यते।इदंविश्व- इतिहासस्य अवधारणां अपि प्रतिद्वन्दयिष्यति, यस्मिन् भारतीय- सभ्यता बाह्यप्रभावै: विकसिता इति मन्यते।
बीएसआइपी इत्यस्य वैज्ञानिक: डा नीरज राय तथा तस्य दल: एतेभ्य: अस्थिपंजरात् आनुवंशिक-दत्तांशस्य विश्लेषणं करिष्यन्ति येन ते भारते काभि: जनजातीनां वा समुदायानां वा आसन् इति निर्णीयते। गतवर्षे इवि तथा बीएसआइपी इत्येतयो: मध्ये सहमति-पत्रं ( एम्.ओ.यू.) हस्ताक्षरितम् आसीत्। राखीगढ़ी इत्यस्य अध्ययनम् अतिरिच्य, डा नीरज कुमार: तस्य दल: च भारतस्य प्राचीन- मानव- उपस्थिति: जैविक-सातत्यम् सांस्कृतिक- विकासस्य च दृढ़ं वैज्ञानिकं प्रमाणं उपस्थापयितुं शक्नोति। १५० अस्थिपंजरयो: सम्प्रति ५० त: अधिकानि अस्थि पंजरानि पूर्णतया संरक्षितानि सन्ति। इवि- संस्थाया: सहायक प्राध्यापक: पुरातत्वशाष्त्रज्ञ: च अतुलनारायणसिंह: वदति यत् एते न केवलं अस्थय: , अपितु गंगा- उपत्यका- सभ्यता- संस्कृते: मूकसाक्ष्य: सन्ति इति। दमदमा, महदहा, सरायनाहर इत्यदीनि स्थलानि प्रमाणानि सन्ति यत्र ६००० ईसापूर्वत: एव मानवनिवासा: आसन् इति। यदि तेषां जेनोमिक-दत्तांश: हरियाणा- राज्यस्य राखीगढ़ी- समुदायेन अथवा तमिलनाडु- राज्यस्य इरुला-समुदायेन सह सम्बद्ध: अस्ति, तर्हि भारतस्य जैविक- सातत्यं सप्त सहस्त्रवर्षाणि यावत् अक्षुण्णम् अस्ति इति प्रमाणं भविष्यन्ति। पुरातत्वविभागस्य सहायक प्राध्यापक: शैलेश: यादव: वदति यत् ब्रिटिश- काले आर्यानाम् बहि: आगमनात् इति सिद्धांत: औपनिवेशिक दृष्टि कोणात् कल्पित: आसीत्इति।
इलाहाबाद- विश्वविद्यालये रक्षितानां एतेषां अस्थि पंजरानां शरीरं विस्मयं जनयति। पुरुषस्य माध्यदीर्घता १९३ सेमी. भवति तथा च महिलानां १७३ सेमी.। ५५ वर्षीयाया: महिलाया: अस्थिपंजरं ६ पादपरिमितम् अस्ति, येन तस्य युगस्य जना: सांस्कृतिकरूपेण उन्नता:, शारीरिकरूपेण च विकसिता: इति सूच्यते। दन्तानां सूक्ष्म विश्लेषणेन ज्ञातम् यत् महिला: अधिकानि धान्यानि खादितवन्त:, पुरुषा: मांस खादितवन्त:। इलाहाबाद विश्वविद्यालये रक्षितानि एतानि १५० मानव- अस्थिपंजरानि राखीगढ़ी- नगरस्य ४५०० ईसापूर्वस्य अस्थिपंजरानाम् अपेक्षया द्विगुणानि पुरातनानि भवितुं अर्हन्ति। मया आह्निकवार्तापत्रस्य २०२५ तमवर्षस्य नवम्बर- मासस्य १६ दिनांके’ सिन्धुलिप्या: भाषाश्च गूढ़ रहस्यं निराकृतम्’ इति लेख: प्रकाशित:। अस्मिन लेखे उल्लिखितम् अस्ति यत्, ‘ २०२४ तमेवर्षे नूतनसंशोधनस्य अनुसारं यज्ञदेवम् इति संगणकविज्ञानी सिन्धुलिपिं सम्पूर्णतया पठितवान् इति दावान् कृतवान्। तस्यमतेन उत्खननात् प्राप्ता: शिलालेखा: संस्कृतभाषायां लिखिता: सन्ति। तेन तमिल- सुमेरियन- एलामाइट- हैटिक इत्यादीनां दावितभाषाणां निराकरणं कृत्वा शाष्त्रीयसंस्कृत- भाषाया: प्राचीनताया: विषये अखण्डनानि निष्कर्षाणि प्रस्तुतानि सन्ति। स: ( यज्ञदेवम्) कथयति यत् भारतवर्षे ७००० ईसापूर्वत: अद्यपर्यन्तं वैदिकसंस्कृति: निरन्तरं प्रवहति। स: स्पष्टं कृतवान् यत् आर्यजना: भारतीया: एव, ते आक्रमणकारी रूपेण अन्यदेशात् न आगतवन्त:। भारतस्य जनेषु आत्मसम्मानं जागरयितुं ब्रिटिश- काले कल्पितस्य आर्य- आक्रमणस्य सिद्धान्तस्य भूतं शिक्षितजनसमूहस्य मनोभ्य: निष्कासयितुं अपरिहार्यम् अस्ति। एतत् तदा एव सम्भवते यदा सर्वकारेण इतिहासकारै: च पुरातत्व- स्थलानां अन्वेषणस्य विषये प्राधान्येन अधिकाधिकं ध्यानं दीयते। आर्य- आक्रमणस्य- काल्पनिक- सिद्धान्तेन सामाजिक- सौहार्दस्य, राष्ट्रीय-एक्यस्य च महती क्षति: अभवत्। अनेन भारतीय समाज: द्वयो: वर्गयो: विभक्त:, प्रथम: उच्चजाति: बहिरागता: इति, अन्ये च मूलनिवासिन: इति, येषु पर्वत-वन-जनै: सह उच्चजातीयेत रजना: सन्ति। अधुना अस्माभि: औपनिवेशिक- शक्ते: काल्पनिक- ऐतिहासिक- आख्यानस्य संशोधनं कर्तव्यम्। एतत् कृते भारतीय ज्ञान व्यवस्थाया: सुदृढ़ीकरणम् आवश्यकं अस्ति। भारतसर्वकार: अपि भारतीय ज्ञानविज्ञानस्य पुनर्जीवनं कृते जागरूक: अस्ति, इति प्रतीयते।
बद्रीनाथधामः-द्वाराणि पिहितानन्तरं धामनगरे आईटीबीपी-पलटनं नियोजितम्, होटेलसञ्चालकाः स्वसामग्री-सङ्ग्रहणं कर्तुं आरब्धवन्तः
देहरादून। बद्रीनाथतीर्थस्य द्वाराणि पिधाय निर्जनं भवति। होटेल-धर्मशाला-कर्मचारिणः स्वसामग्री-सङ्ग्रहणे व्यस्ताः सन्ति। तीर्थे सुरक्षायै आईटीबीपी नियोजितः अस्ति। बद्रीनाथ-तीर्थस्य द्वाराणि नवम्बर्-मासस्य २५ दिनाङ्के शिशिर-ऋतु-कृते पिहितानि आसन्। बन्दीकरणात् परं अधिकांशजना: क्षेत्रात् प्रत्यागताः सन्ति। केषाञ्चन…








