पहलगाम-आक्रमणस्य विरुद्धं ब्राजील्-देशः भारतस्य समर्थनं करोति

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे पहलगाम-आतज्र्-आक्रमणस्य विरुद्धं भारतस्य समर्थनं कृत्वा ब्राजील-राष्ट्रपतिः लूला-दा-सिल्वा-इत्यस्य धन्यवादं कृतवान्। आतज्र्वाद विरुद्धं शून्य सहिष्णुतायाः, शून्यद्विगुणमानकस्य च नीति विषये उभयदेशयोः सहमतिः अभवत्। एतेन सह रक्षासहकार्यं वर्धयितुं रक्षाक्षेत्रस्य एकीकरणे अपि बलं दत्तम्। राष्ट्रपति सिल्वा भारत-ब्राजील-सम्बन्धं सुदृढं कर्तुं पीएम मोदीं सर्वोच्च नागरिक सम्मानेन ‘दक्षिण क्रौसस्य राष्ट्रिय-आर्डरस्य ग्राण्ड-कालर’ इत्यनेन सम्मानितवान्। २०१४ तमस्य वर्षस्य मेमासे प्रधानमन्त्रि पदं स्वीकृत्य पीएम मोदी इत्यस्मै विदेश सर्वकारेण दत्तः २६ तमः अन्तर्राष्ट्रीयः सम्मानः अस्ति। उभय देशयोः त्रयः सम्झौताः हस्ताक्षरिताः, येषु आतज्र्वादस्य संगठित-अपराधस्य च विरुद्धं सहकार्यं, डिजिटल-प्रौद्योगिक्याः, नवीकरणीय-ऊर्जायाः च साझेदारी च अन्तर्भवति एतदतिरिक्तं शीघ्रमेव त्रीणि अपि सम्झौतानि हस्ताक्षरितानि भविष्यन्ति, येषुकृषिसंशोधनं,गुप्तसूचनानां परस्पसाझेदारी,बौद्धिकसम्पत्त्याः च अन्तर्भवति।
भारत-मर्कोसुर-व्यापारसम्झौतां अग्रे सारयितुं पीएम मोदी ब्राजील्-देशात् समर्थनं याचितवान् । सः राष्ट्रपतिं लूलाम् भारतभ्रमणाय आमन्त्रितवान्, तत् सः स्वीकृतवान्। पीएम मोदी जुलैमासस्य २ दिनाज्रत् ५ देशानाम् भ्रमणं करोति, एतावता सः घाना, त्रिनिदाद् एण्ड् टोबैगो, अर्जेन्टिना, ब्राजील् इत्यादीनां भ्रमणं कृतवान् अस्ति। अधुना सः नामिबिया-भ्रमणार्थं प्रस्थास्यति।पीएममोदीउक्तवान्यत् सः ब्राजीलस्य सर्वोच्चसम्मानंप्राप्तवान्इति१४०कोटि भारतीयानां कृते गौरवस्य विषयः अस्ति। सः अवदत् यत् आगामिषु पञ्चषु वर्षेषु द्विपक्षीय व्यापारं २० अरब-डॉलर् (१.७० लक्षकोटि रूप्यकाणि) यावत् नेतुम् उभयोः देशयोः लक्ष्यं निर्धारितम् अस्ति। पीएम मोदी विनोदेन उक्तवान् – फुटबॉलः ब्राजीलस्य आत्मा अस्ति, क्रिकेट् तु भारतीयानां अनुरागः अस्ति। कन्दुकः सीमां लङ्घयति वा गोलस्तम्भे प्रहारं करोति वा, २० अरब डॉलरस्य साझेदारी कठिना नास्ति।’ ऊर्जाक्षेत्रे वर्धमानसहकार्यं बोधयन् सः अवदत् यत् पर्यावरणं स्वच्छ ऊर्जा च उभयदेशयोः प्राथमिकता अस्ति।सः रक्षाक्षेत्रे वर्धमानं सहकार्यं परस्परविश्वासस्य प्रतीकं वर्णितवान्, उभयदेशाः स्वरक्षाक्षेत्राणां एकीकरणाय निरन्तरं प्रयतन्ते इति च अवदत्। प्रधानमन्त्री नरेन्द्रमोदी ब्रिक्स-शिखर सम्मेलने भागं गृहीत्वा मंगलवासरे प्रातःकाले रियोडीजनेरियोतःब्राजीलस्य राजधानी ब्रासिलिया नगरंप्राप्तवान्।अत्रशिवताण्डवस्तोत्रेण भारतीयशास्त्रीयनृत्येन च स्वागतंकृतम्।
भारतीयः पीएम २ जुलैतः १० जुलैपर्यन्तं ५ देशेषु भ्रमणं कुर्वन् अस्ति ।अधुना सः घाना, त्रिनिदाद् एण्ड् टोबैगो, अर्जेन्टिनादेशं गतः। सम्प्रति सः ब्राजील्-देशस्य भ्रमणं कुर्वन् अस्ति, अतः सः नामिबिया-देशं गमिष्यति ।

  • editor

    Related Posts

    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    नवदेहली। राष्ट्रीयस्वयंसेवकसंघस्य प्रमुखः मोहन भागवतः शनिवासरे अवदत् यत्, ‘भारतस्य स्वभावे संघर्षेषु प्रवृत्तिः नास्ति। देशस्य परम्परायां सर्वदा भ्रातृत्वस्य, सामूहिकसौहार्दस्य च उपरि बलं दत्तम् वर्तते। सः अवदत् यत् भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यव्याख्याभ्यः…

    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    लखनऊ। प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन शनिवासरे रायपुरनगरे ६० तमे अखिलभारतीय महानिदेशक/ पुलिस महानिरीक्षक सम्मेलनस्य अध्यक्षता कृता। त्रिदिवसीय सम्मेलनं भारतीय प्रबन्धन संस्थायां रायपुरे सम्पन्नम्। २८ नवम्बर् दिनाङ्के आरब्धस्य सम्मेलनस्य कृते शुक्रवासरे…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    • By editor
    • November 29, 2025
    • 7 views
    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    • By editor
    • November 29, 2025
    • 7 views
    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    ‘गीडा’ स्थापनादिवसः-सीएम योगी अवदत् यत्, ‘अत्र गोलिकाः प्रहारिताः भवन्ति स्म…सर्वेषां पृष्ठं भग्नं ऋजुं च भवति स्म; अधुना यूपी उत्सवस्य अवस्था अस्ति’

    • By editor
    • November 29, 2025
    • 7 views
    ‘गीडा’ स्थापनादिवसः-सीएम योगी अवदत् यत्, ‘अत्र गोलिकाः प्रहारिताः भवन्ति स्म…सर्वेषां पृष्ठं भग्नं ऋजुं च भवति स्म; अधुना यूपी उत्सवस्य अवस्था अस्ति’

    एबीवीपी राष्ट्रियसम्मेलनम्-एस सोमनाथः अवदत् यत्, ‘राष्ट्रं केवलं युवानां ज्ञानेन, प्रौद्योगिक्याः, शक्तया च प्रगतिः भविष्यति’

    • By editor
    • November 29, 2025
    • 4 views
    एबीवीपी राष्ट्रियसम्मेलनम्-एस सोमनाथः अवदत् यत्, ‘राष्ट्रं केवलं युवानां ज्ञानेन, प्रौद्योगिक्याः, शक्तया च प्रगतिः भविष्यति’

    एकस्य इतिहासस्य धारणाम् सुदृढं कृत्वा, एकस्य भूगोलस्य प्रतीक्षां कुर्वन्

    • By editor
    • November 29, 2025
    • 4 views
    एकस्य इतिहासस्य धारणाम् सुदृढं कृत्वा, एकस्य भूगोलस्य प्रतीक्षां कुर्वन्

    अयोध्या नगरे श्रीराम मन्दिर ध्वजारोहणविषये पाकिस्तानस्य क्रोधः

    • By editor
    • November 29, 2025
    • 7 views
    अयोध्या नगरे श्रीराम मन्दिर ध्वजारोहणविषये पाकिस्तानस्य क्रोधः

    You cannot copy content of this page