
नवदेहली। नेपाले अन्तर्राष्ट्रीय एवरेस्ट् दिवसस्य अवसरे शताधिक पर्वता रोहिणां अभिनन्दनं कृतम्। अस्मिन् समारोहे भारतस्य १५ पर्वतारोहिणः अपि उपस्थिताः आसन्। नेपाल पर्यटन मन्त्री बद्री पाण्डेय द्वारा सभी पर्वतारोहियों को प्रशंसा प्रमाण पत्र प्रदान किया।अभिनन्दितेषु हिमाचल प्रदेशस्य किन्नौरनगरस्य अमितनेगी अपि अन्यतमः आसीत्। सः भारतस्य कनिष्ठतमेषु एवरेस्ट्-विजेतृषु अन्यतमः अस्ति। सः एवरेस्ट् (८८४८.८६ मी.), कञ्चेनजङ्गा (८,५८६ मी.), अन्नपूर्णा (८०९१ मी.) च सफलतया स्केल कृतवान् अस्ति किन्नौरतः प्रथमः युवा अन्नपूर्णा माउण्ट् आरोहणं कृतवान् अमितः किन्नौरस्य प्रथमः युवा अस्ति यः अन्नपूर्णा पर्वतस्य आरोहणं कृतवान् अस्ति। समारोहे आशीषसिंह,निशा कुमारी, अनुजा वैद्य, बलजीत कौर, सुविधा कडालाग, सूर्यप्रकाश, शेख हिमांशु, सत्यरूप सिद्धान्त, ज्योतिरात्रे, नवोदिता सहित भारतस्य अन्ये पर्वता रोहिणः अपि अभिनन्दिताः। अस्मिन् अवसरे’एवेरेस्ट् एलायन्स नेपाल’ इत्यनेन विशेष सम्मेलनस्य आयोजनं कृतम्। अस्मिन् पर्वतारोहणेन सह वैश्विकतापस्य, पर्यावरण परिवर्तनस्य च चर्चा अभवत्। नेपाल सर्वकारेण पर्वत पर्यटनस्य प्रवर्धनार्थं, पर्वतारोहिनां सुरक्षायाः सह हिमालयस्य रक्षणाय च प्रतिबद्धता प्रकटिता।