
नवदेहली। रेशिमगहस्य हेडगेवार स्मृति मन्दिर परिसरस्य विदर्भप्रान्तस्य वार्षिकसभायां आरएसएसस्य विदर्भप्रान्त संघचालकः, विदर्भ प्रान्त सहचलकः, नागपुर महारानाग्रह संघ चालकः तथा आरएसएस सम्बद्धानां संस्थानां अन्ये कतिपये कार्यकर्तारः अपि भागं गृहीतवन्तः। केन्द्रीयमन्त्री नितिन गडकरी महाराष्ट्रस्य मुख्यमन्त्री देवेन्द्र फडणवीसः रविवासरे नागपुरे विदर्भ क्षेत्रस्य वरिष्ठ भाजपा नेतृणां आरएसएस कार्यकर्तृणां च समन्वयसभायां भागं गृहीतवन्तौ। भाजपा महाराष्ट्र इकाई अध्यक्ष चन्द्रशेखर बावनकुले अपि सभायां भागं गृहीतवान् इति सूत्रेषु उक्तम्। परन्तु समागमस्य विवरणं ज्ञातुं न शक्यते स्म। सूत्रानुसारं आरएसएस-सङ्घस्य तत्सम्बद्धानां च नियमित वार्षिक सभा अस्ति।