
प्रयागराज:। वार्ताहर:। नागपंचमी पर्व श्रावण शुक्लपक्ष पंचमी तिथि: नागपंचमी इति नाम्ना ख्याता। उत्तर प्रदेशे अस्मिन् पर्वणि नागदेवताया: पूजन परम्परा प्रचलिता। मंगलवासरे इयं तिथि: समागता। अत: विविधेषु शिवमन्दिरेषु अथ च नागदेवस्य स्थानेषु यथा नागवासुकिमन्दिरे तक्षक मन्दिरे च नागदेवताया: श्रद्धया पूजनं दुग्धं पानं च कारिष्ये। अस्मिन् पर्वणि ग्राम्यांचलेषु विविध क्रीडा प्रतियोगिता: समायोजयिष्यन्ते। ग्रामेषु च क्रीडा प्रतियोगिता: समायोजयिष्यन्ते। ग्रामेषु बालिकाभि: ग्रीष्मकालीन निर्मिता: क्रीडकस्वरुपा: पुत्तलिका (गुड़िया) इत्येषां नदीषु जलायेषु वा उक्षिप्य बालानां बदरिकादण्डै: तेषां पीडनं इति परम्परा: सन्ति । अनेनैव सह शिवमन्दिरेषु तथा शिवशीर्षस्थे नागस्य पूजनं व्यवहारे प्रचलित:।