
प्रयागराज:। वार्ताहर:। प्रयागराज जनपद न्यायालयस्य परिसरे सोमवासरे पुनः वकिलानां क्रोधः उत्पन्नः। अद्य पञ्चमदिनं यावत् नगरनिगमेन मार्गपार्श्वे निर्मितानाम् प्रायः २०० अधिवक्तृणां कक्षाणां ध्वंसनस्य विरुद्धं अधिवक्तारः प्रबलं विरोधं कृतवन्तः। विरोधरूपेण अधिवक्तारः नगरायुक्तस्य प्रतीकात्मकं अन्त्येष्टिशोभायात्रां बहिः कृत्वा तस्य प्रतिमां दह्य स्वस्य अप्रसन्नतां प्रकटितवन्तः। अधिवक्ता वर्गेन नगरनिगमेन कृतं एतत् कार्यं एक पक्षीयं मनमाना च सर्वथा अन्यायपूर्णं च इति उक्तम्। अधिवक्तारः वदन्ति यत् पूर्वसूचना विना वैकल्पिकव्यवस्थां विना तेषां कक्षाणि ध्वस्तानि, येन न केवलं तेषां व्यावसायिककार्यं प्रभावितं जातम्, अपितु शतशः अधिवक्तारः आजीविकायाः संकटस्य सामनां कुर्वन्ति। अधिवक्तारः घोषितवन्तः यत् यावत् नगरनिगमेन तेषां कक्षस्य पुनर्निर्माणस्य वैकल्पिक व्यवस्थायाः वा विषये ठोस आश्वासनं न दत्तं तावत् यावत् एषः विरोधः निरन्तरं भविष्यति ज्ञातव्यं यत् विगतकेषु वर्षेषु जिलान्यायालयस्य परिसरस्य परितः वकिलाः स्वव्यावसायिककार्यस्य कृते मार्गस्य पार्श्वे अस्थायीकक्षाणि निर्मितवन्तः, येषां ध्वंसनं नगरनिगमेन अद्यैव बुलडोजरं चालयित्वा अतिक्रमणं इति मन्यते। एतेन अधिवक्तृषु गहनः आक्रोशः उत्पन्नः, ये अधुना न्यायिककार्यं त्यत्तäवा विरोधं कुर्वन्ति।