दशदिवसीय-संस्कृतसम्भाषण शिविरस्य समापनम्

देहरादून/ वार्ताहर:। परमार्थवैदिक गुरुकुले, कण्वाश्रमे, कोटद्वारे दश दिनात्मकः सरल संस्कृत संभाषण शिविरः सम्पन्न:। छात्रेभ्यः सरल पद्धत्या संस्कृतशिक्षायाः उद्देश्येन एतत् शिविरं संस्कृतभारती-कोटद्वारं तथा परमार्थवैदिकगुरुकुल-कण्वाश्रम: इत्येतयोः संयुक्ततत्त्वावधाने आयोजितम्।
समापनसमारोहे डॉ. रमाकान्तः कुकरेती, सेवानिवृत्तप्रधानाचार्यः, संस्कृत भारती कोटद्वार नगराध्यक्षः, मुख्यातिथिरूपेण उपस्थितः। मुख्यशिक्षकः कुलदीपः मैन्दोला, मनमोहनः नौटियालः (प्रधानाचार्यः, परमार्थवैदिक गुरुकुलं), राकेशः कण्डवालः (योगशिक्षकः), सिद्धार्थः नैथानी, प्रशान्तः जोशी, विकासः, अम्बेशः पन्तः, प्रवीणः थापाः, श्वेता रावत:, सुदीपः थपलियालः, सुभाषः, रावताचार्यः च गुरुकुलस्य अध्यापकाः च सपरिवारं सप्ततिः छात्राः च उपस्थिताः आसन्। छात्रेषु वेदान्तः, अनिलः, हनुगिरिः, अनुरागः, दिव्यांशः च स्वदशदिनानुभवं संस्कृतभाषायाम् एव सप्रेमम् उक्तवन्त:। श्रीमनमोहनकाला विस्तरेण कथयामास यत् -कण्वाश्रम: इत्यस्य नाम्नः कारणम् कण्वऋषेः तपोभूमिः अस्ति, शकुन्तलायाः पुत्रस्य भरतस्य नाम्ना ‘भारत’ इत्यपि नाम जातम्। राजाविक्रमादित्यस्य भ्रात्रा भर्तृहरिणा निर्मिता पैडिः ‘हरकी पैड़ी’ इत्युच्यते, यतो हरिद्वारस्य नाम प्रसिद्धं जातम्। डॉ. रमाकान्तः कुकरेती उक्तवान् यत-‘पुस्तकेभ्यः वार्षिकं पाठ्यक्रमं पठित्वा अध्ययनं क्रियते, किन्तु संस्कृतभारत्याः मतानुसारं केवलं दशसु दिनेषु द्वौ घण्टौ प्रतिदिनं अभ्यासेन वयं संस्कृतम् अधिगन्तुं शक्नुमः।’ अम्बेशः पन्तः उक्तवान् यत् -‘अद्य समाजः संस्कृतभाषां प्रति आकृष्टः दृश्यते। अस्यां भाषायां अस्माकं सर्वसमृद्धि: अन्तर्भूता अस्ति, अतः संस्कृताध्ययनं आवश्यकम्। एषा अस्माकं दायित्वयुक्ता भाषा यत् संस्कृतं समाजे व्याप्तं कुर्मः। प्रवीणः थापः उक्तवान्-‘संस्कृतं एव संस्कृतेः मूलम्। कण्वा श्रमस्य संस्कृति: विश्वविख्याता आसीत्, गर्वस्य विषयः यत् अद्यापि कण्वाश्रमे संस्कृतं जीवति।’ संस्कृतभारती संस्था १९८१ इत्यस्मिन् वर्षे स्थापिता, भाषायाः लोकोपयोगी स्वरूपे पुनर्जीवनं दातुं समर्पिता अस्ति। एषा संस्था संवाद शिविरादि प्रयोगैः लक्षाणां व्यक्तीनां पर्यन्तं भाषा प्रसारं कृतवती। संस्था विश्वे दशदिनात्मकानि संवादशिविराणि आयोजयति, यया प्रारम्भिकस्तरे अपि जनाः भाषायाः ज्ञानं प्राप्नुवन्ति। पत्राचार पाठ्यक्रमाः, शिक्षक प्रशिक्षणम्, गीता शिक्षण केन्द्राणि, बाल केन्द्राणि, संभाषण संदेशम् इत्याख्यां लोकप्रियपत्रिकां च प्रकाशयति। संस्था अद्यावधि २६ राष्ट्रेषु ४५०० केन्द्राणि स्थाप्य, एककोटि अधिकजनान् संस्कृत शिक्षां प्रदत्तवती। दश सहस्राधिकानि ‘संस्कृतगृहाणि’ अपि स्थापितानि, यत्र सर्वे सदस्याः केवलं संस्कृतेन संवादं कुर्वन्ति। भारतदेशे कर्नाटक राज्ये मत्तूरु, होसाहल्ली तथा मध्यप्रदेशे झीरी, मोहद इत्यादिषु षट् ग्रामाः ‘संस्कृत ग्राम’रूपेण विख्याताः, यत्र सर्वे जनाः केवलं संस्कृते नैव व्यवहारं कुर्वन्ति।

  • editor

    Related Posts

    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    नवदेहली। राष्ट्रीयस्वयंसेवकसंघस्य प्रमुखः मोहन भागवतः शनिवासरे अवदत् यत्, ‘भारतस्य स्वभावे संघर्षेषु प्रवृत्तिः नास्ति। देशस्य परम्परायां सर्वदा भ्रातृत्वस्य, सामूहिकसौहार्दस्य च उपरि बलं दत्तम् वर्तते। सः अवदत् यत् भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यव्याख्याभ्यः…

    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    लखनऊ। प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन शनिवासरे रायपुरनगरे ६० तमे अखिलभारतीय महानिदेशक/ पुलिस महानिरीक्षक सम्मेलनस्य अध्यक्षता कृता। त्रिदिवसीय सम्मेलनं भारतीय प्रबन्धन संस्थायां रायपुरे सम्पन्नम्। २८ नवम्बर् दिनाङ्के आरब्धस्य सम्मेलनस्य कृते शुक्रवासरे…

    One thought on “दशदिवसीय-संस्कृतसम्भाषण शिविरस्य समापनम्

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    • By editor
    • November 29, 2025
    • 7 views
    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    • By editor
    • November 29, 2025
    • 7 views
    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    ‘गीडा’ स्थापनादिवसः-सीएम योगी अवदत् यत्, ‘अत्र गोलिकाः प्रहारिताः भवन्ति स्म…सर्वेषां पृष्ठं भग्नं ऋजुं च भवति स्म; अधुना यूपी उत्सवस्य अवस्था अस्ति’

    • By editor
    • November 29, 2025
    • 7 views
    ‘गीडा’ स्थापनादिवसः-सीएम योगी अवदत् यत्, ‘अत्र गोलिकाः प्रहारिताः भवन्ति स्म…सर्वेषां पृष्ठं भग्नं ऋजुं च भवति स्म; अधुना यूपी उत्सवस्य अवस्था अस्ति’

    एबीवीपी राष्ट्रियसम्मेलनम्-एस सोमनाथः अवदत् यत्, ‘राष्ट्रं केवलं युवानां ज्ञानेन, प्रौद्योगिक्याः, शक्तया च प्रगतिः भविष्यति’

    • By editor
    • November 29, 2025
    • 4 views
    एबीवीपी राष्ट्रियसम्मेलनम्-एस सोमनाथः अवदत् यत्, ‘राष्ट्रं केवलं युवानां ज्ञानेन, प्रौद्योगिक्याः, शक्तया च प्रगतिः भविष्यति’

    एकस्य इतिहासस्य धारणाम् सुदृढं कृत्वा, एकस्य भूगोलस्य प्रतीक्षां कुर्वन्

    • By editor
    • November 29, 2025
    • 4 views
    एकस्य इतिहासस्य धारणाम् सुदृढं कृत्वा, एकस्य भूगोलस्य प्रतीक्षां कुर्वन्

    अयोध्या नगरे श्रीराम मन्दिर ध्वजारोहणविषये पाकिस्तानस्य क्रोधः

    • By editor
    • November 29, 2025
    • 7 views
    अयोध्या नगरे श्रीराम मन्दिर ध्वजारोहणविषये पाकिस्तानस्य क्रोधः

    You cannot copy content of this page