
वार्ताहर: आचार्यदीनदयालशुक्ल:। अद्य उत्तरप्रदेश संस्कृत संस्थान लखनऊ द्वारा आयोजिता जिलास्तरीया ‘संस्कृत प्रतिभा खोजप्रतियोगिता’ डी.ए.वी. इण्टर कालेज, बाँदा इत्यत्र आयोजिता। कार्यक्रमस्य आरम्भः दीप प्रज्वलनेन,सरस्वतीमातु:चित्रस्य मालाकरणेन च अभवत्। कार्यक्रमस्य संयोजक डॉ. जानकीशरण शुक्ल इत्यनेन सर्वेषां प्रतिभागिनां प्रतियोगितायाः नियमानाम् परिचयःकारितः। सर्वेभ्यःशुभकामनाः प्रेषयित्वा स्पर्धायाः आरम्भः अभवत्। प्रतियोगितायां २० विद्यालयेभ्यः १०० तः अधिकाः छात्राः भागं गृहीतवन्तः। डॉ. रविन्द्र पंथ, डॉ. सर्वेश तिवारी, श्री पवन कुमार सिंह: एवं श्रीमती वर्षा द्विवेदी चासीत्। संस्कृतगीत स्पर्धायां प्रथम स्थानं प्रीतित्रिवेदी, पं. जवाहर लाल इण्टर कॉलेज गिरवाँ एवं द्वितीय स्थानम् ऋतुयादव शासकीय इण्टर कॉलेज-बिलगांव, तृतीय स्थानं प्रतिभा, तथागत ज्ञानस्थानी वरिष्ठ माध्यमिक विद्यालय: अतर्रा द्वारा प्राप्तम्। संस्कृत सामान्यज्ञाने यशकुमार: इण्टर कॉलेज गिरवाँ प्रथम:, पवनकुमार: इण्टरकॉलेजगिरवाँ द्वितीय:, कार्तिक डीएवीइण्टरकॉलेज,बाँदा तृतीयं स्थान मवाप्तम्। संस्थानेन १००० रुप्यकाणि दीयते। प्रथम स्थानस्य कृते १०००,रु.द्वितीय स्थानस्यकृते ८००, रू.तृतीय स्थानार्थं ७०० रुप्यकाणि तथा सान्त्वनापुरस्कारः रु. ५०० तः त्रयः प्रतिभागिनः। सर्वेषांप्रतिभागिनांमुख्यतिथि: श्रीदिनेश कुमार: (जिला विद्यालय निरीक्षक: बांदा) द्वारा पुरस्कार-प्रमाण पत्रवितरण ञ्चाभूत्। प्रतियोगितायाः आयोजकः विद्यालयस्य प्रधानाचार्य: डॉ. आनन्दकुमारः संस्कृतस्य महत्त्वे प्रकाशं दत्वा सर्वेभ्यः अतिथिभ्यः धन्यवादं दत्तवान्। अस्मिन् कार्यक्रमे मेजर मिथलेश पाण्डेय:, श्रीशिवदत्तत्रिपाठी, श्रीश्याम मनोहरराव:, श्रीराजकिशोर शुक्ल:, श्रीजितेन्द्र द्विवेदी, प्रशांत रावत:, स्वाति सिंह, श्वेतात्रिपाठी,साधनासिंह,श्रीमतीअर्चना,सहितं विद्यालयस्य नैके छात्र-शिक्षकाश्चोपस्थिताऽभवन्।