डा॰तरुणकुमारशर्मण: इण्डोनेशियादेशे संस्कृतसेवासम्मानेन सम्मानिता:

आचार्यदीनदयालशुक्ल:/ बाँदा ।। बाँदाजनपदस्य अतर्रास्नातकोत्तरमहाविद्यालयस्य संस्कृत विभागस्य सहायकाचार्यं डॉ॰शर्मातरुण कुमारं उत्तरप्रदेशस्य लखनऊ स्थः संस्कृतसङ्गमःप्रयागेन्यासः उत्कृष्टसंस्कृत सेवा सम्मानेन सममानयत्। संस्कृतभाषायाः संरक्षणाय राष्ट्रियान्ताराष्ट्रियस्तरेषु तस्याः प्रचारप्रसाराय आधुनिक परिपेक्ष्ये पुनर्स्थापनाय नवोन्मेष्यनुसन्धानकार्यैः शोध जिज्ञासूनां समृद्धये तथा च विद्यार्थिरूपेण समर्पितसाधना नुक्रमाय न्यासस्य अध्यक्षः सुरेन्द्रपाल:, सचिवः कमल पाण्डेय संरक्षकः भारतीयप्रशासनिक सेवाधिकारी डा॰ बी॰डी ॰आर्॰तिवारिश्च पञ्चविंशत्यधिक द्विसहस्रतमे कृष्टाब्दे द्वादशमासस्य त्रयोदशदिनाङ्के एकस्याः संगोष्ठ्याः अवसरे फलकं सम्मानपत्रं च प्रदाय डा॰ शर्माणं सम्मानितवन्तः। डॉ॰शर्मा पञ्चविंशत्यधिक द्विसहस्रतमे कृष्टाब्दे दशममासस्य चतुर्दशपञ्चदश दिनाङ्केषु इण्डोनेशियादेशस्य बालिद्वीपे प्रतिष्ठिते ऐ॰जी॰ बी॰सुप्रीमराजकीयहिन्दुविश्वविद्यालये चतुर्थवैश्विक सम्मेलने ‘समकालीनचुनौतीनां समाधाने वैदिक धर्मस्य भारतीयज्ञानप्रणाल्याश्च’ समकालिक प्रासङ्गिकता इति विषये विशिष्टवक्तृरूपेण व्याख्यानं दत्तवान्। अद्ययावत् राष्ट्रियान्ताराष्ट्रियस्तरीयासु अनेकासु पत्रपत्रिकासु तस्य शोधपत्राणि प्रकाशितानि अभवन्। डॉ॰शर्मा इण्डोनेशिया देशस्य गुरुकुलेषु गत्वा संस्कृतेः संस्कृत्याश्च प्रचारं प्रसारं चापि अकरोत्। सः कथयति यत् संस्कृतं वैज्ञानिकी भाषा वर्तते। संस्कृते तन्त्रांशाः निर्मिताः सन्ति। इयं सङ्गणकस्य कृते प्रयुक्ता भाषा अस्ति। भविष्यत्काले कृतकप्रज्ञा पाणिनीय व्याकरण सूत्राणाम् आधारेण कार्यं करिष्यति। अस्यां सम्मानप्राप्तौ महाविद्यालयस्य प्राचार्यः अध्यक्षः प्रबन्धसमितिश्च तथा च सर्वे शिक्षकाः कर्मचारिणश्च तस्मै अनेकानि अभिनन्दनानि अददुः।

  • editor

    Related Posts

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    देहरादून/वार्ताहर:। हरिद्वारनगरे देवसंस्कृति विश्वविद्यालयेन आयोजिते ध्वजारोहण समारोहे मुख्यमन्त्री पुष्करसिंह धामी, केन्द्रीय संस्कृति पर्यटन मन्त्री गजेन्द्रसिंह शेखावतः च भागं गतवन्तौ।वक्तारः गायत्री परिवारस्य शताब्दी समारोहं भारतीय संस्कृतेः,सेवायाः, आध्यात्मिक व्यवहारस्य च पुन र्जागरणस्य…

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    आनन्द शुक्ल। २०२६ तमे वर्षे बीएमसी-निर्वाचने भाजपा-शिवसेना-सङ्घटनेन ऐतिहासिकं विजयं प्राप्तम्, एकैकंबृहत्तमं दलं रूपेण उद्भूतम्। एतेन विजयेन ठाकरे-परिवारस्य दशक त्रयपर्यन्तं कृतं वर्चस्वं समाप्तं भवति। बीएमसी-मध्ये २२७ वार्डेषु बहुमतस्य अंकः ११४ अस्ति,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 95 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 54 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 44 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 38 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 49 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 71 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page