आचार्यदीनदयालशुक्ल:/ बाँदा ।। बाँदाजनपदस्य अतर्रास्नातकोत्तरमहाविद्यालयस्य संस्कृत विभागस्य सहायकाचार्यं डॉ॰शर्मातरुण कुमारं उत्तरप्रदेशस्य लखनऊ स्थः संस्कृतसङ्गमःप्रयागेन्यासः उत्कृष्टसंस्कृत सेवा सम्मानेन सममानयत्। संस्कृतभाषायाः संरक्षणाय राष्ट्रियान्ताराष्ट्रियस्तरेषु तस्याः प्रचारप्रसाराय आधुनिक परिपेक्ष्ये पुनर्स्थापनाय नवोन्मेष्यनुसन्धानकार्यैः शोध जिज्ञासूनां समृद्धये तथा च विद्यार्थिरूपेण समर्पितसाधना नुक्रमाय न्यासस्य अध्यक्षः सुरेन्द्रपाल:, सचिवः कमल पाण्डेय संरक्षकः भारतीयप्रशासनिक सेवाधिकारी डा॰ बी॰डी ॰आर्॰तिवारिश्च पञ्चविंशत्यधिक द्विसहस्रतमे कृष्टाब्दे द्वादशमासस्य त्रयोदशदिनाङ्के एकस्याः संगोष्ठ्याः अवसरे फलकं सम्मानपत्रं च प्रदाय डा॰ शर्माणं सम्मानितवन्तः। डॉ॰शर्मा पञ्चविंशत्यधिक द्विसहस्रतमे कृष्टाब्दे दशममासस्य चतुर्दशपञ्चदश दिनाङ्केषु इण्डोनेशियादेशस्य बालिद्वीपे प्रतिष्ठिते ऐ॰जी॰ बी॰सुप्रीमराजकीयहिन्दुविश्वविद्यालये चतुर्थवैश्विक सम्मेलने ‘समकालीनचुनौतीनां समाधाने वैदिक धर्मस्य भारतीयज्ञानप्रणाल्याश्च’ समकालिक प्रासङ्गिकता इति विषये विशिष्टवक्तृरूपेण व्याख्यानं दत्तवान्। अद्ययावत् राष्ट्रियान्ताराष्ट्रियस्तरीयासु अनेकासु पत्रपत्रिकासु तस्य शोधपत्राणि प्रकाशितानि अभवन्। डॉ॰शर्मा इण्डोनेशिया देशस्य गुरुकुलेषु गत्वा संस्कृतेः संस्कृत्याश्च प्रचारं प्रसारं चापि अकरोत्। सः कथयति यत् संस्कृतं वैज्ञानिकी भाषा वर्तते। संस्कृते तन्त्रांशाः निर्मिताः सन्ति। इयं सङ्गणकस्य कृते प्रयुक्ता भाषा अस्ति। भविष्यत्काले कृतकप्रज्ञा पाणिनीय व्याकरण सूत्राणाम् आधारेण कार्यं करिष्यति। अस्यां सम्मानप्राप्तौ महाविद्यालयस्य प्राचार्यः अध्यक्षः प्रबन्धसमितिश्च तथा च सर्वे शिक्षकाः कर्मचारिणश्च तस्मै अनेकानि अभिनन्दनानि अददुः।






