
नवदेहली। अमितशाहस्य नेतृत्वे गृहमन्त्रालयेन २०२७ तमे वर्षे राष्ट्रिय जनगणनायाः संचालनार्थं आधिकारिक सूचना जारीकृता अस्ति।कोविड-१९ महामारी कारणात् विलम्बितायाः दशकीय जनगणनायां अधुना प्रथमवारं डिजिटलदत्तांशसङ्ग्रहः, स्वगणनाविकल्पः, जातिगणना च दृश्यते, यत् २०२७ तमस्य वर्षस्य मार्चमासस्य १ दिनाज्र्पर्यन्तं सम्पन्नं भविष्यति। प्रायः ३४ लक्षगणकाः पर्यवेक्षकाः च…कार्याय १.३ लक्षं जनगणना कर्मचारिणः नियोजिताः भविष्यन्ति। एतत् कार्यं द्वयोः चरणयोः क्रियते, २०२७ तमस्य वर्षस्य मार्चमासस्य प्रथमदिन पर्यन्तं सम्पन्नं भविष्यति। गृहमन्त्रालयेन उक्तं यत् जनगणना डिजिटल माध्यमेन मोबाईल-अनु प्रयोगानाम् उपयोगेन क्रियते, यत्र जनानां कृते स्वगणनायाः प्रावधानमपि प्रदत्तं भविष्यति। तत्र अपि उक्तं यत् ‘संग्रहणस्य, संचरणस्य, भण्डारणस्य च समये दत्तांश सुरक्षां सुनिश्चित्य अत्यन्तं कठोर दत्तांश सुरक्षा परिपाटाः क्रियन्ते’ इति। जनगणना द्वयोः चरणयोः क्रियते-गृहसूची सञ्चालनम् यस्मिन् प्रत्येकस्य गृहस्य आवासीय स्थितिः, सम्पत्तिः, सुविधाः च एकत्रिताः भविष्यन्ति, जनसंख्या गणना, यस्मिन् प्रत्येकस्मिन् गृहे प्रत्येकस्य व्यक्तिस्य जनसांख्यिकीय-सामाजिक-आर्थिक-सांस्कृतिक-आदि-विवरणानि एकत्रितानि भविष्यन्ति गृहमन्त्रालयेन उक्तं यत् जनगणनायां जातिगणना अपि भविष्यति।