
नवदेहली। चीनदेशः स्वस्य आधिकारिक जालस्थले ग्लोबल टाइम्स् इत्यत्र सूचीं प्रकाशितवान् आसीत् । भारतस्य पूर्वोत्तरराज्यस्य अरुणाचलप्रदेशस्य २७ स्थानानां नाम परिवर्तनस्य विषये चर्चा अभवत्। चीनस्य अस्याः कार्यस्य विषये भारतीय विदेश मन्त्रालयस्य प्रवक्ता रणधीर जयसवालः उक्तवान् आसीत् यत् चीनस्य नाम परिवर्तनस्य क्रिया मूर्खता अस्ति, तस्मात् किमपि भेदः न भविष्यति।






