चित्रकूटधाम्नि रामघट्टस्थ रामायणकुटीरे सम्पन्नः कार्यकर्तृविकासवर्गस्य समारोपः

आचार्यदीनदयालशुक्ल:/चित्रकूटधाम। संस्कृतभारती पूर्वोत्तर क्षेत्रस्य आयोजित: कार्यकतृविकासवर्ग: चित्रकूटधाम्नि रामघट्टस्थ रामायण कुटीरे परिसम्पन्न:। अयं वर्ग: संस्कृतभारतीद्वारा समायोजित:। समारोप समारम्भस्य अध्यक्षतां कुर्वन् अखिलभारतीय सङ्घटनमन्त्री जयप्रकाश वर्याणां पाथेयं कार्यकतृभि: सम्प्राप्तम्। सोऽवदत् अवदत् यत्-संस्कृतभारती संघटनस्य विकासाय सर्वत्र नानाविध प्रकल्पा: सक्रियतया प्रवर्तमानाः सन्ति। अथ च संस्कृत-विश्वविद्यालयश्च स्वस्व स्तरेण संस्कृतप्रचाराय तत्पराः सन्ति। अस्माकं मूलं संस्कृतस्य संघटनस्य विकास इति वर्तते। अस्माकं संस्कृतभाषा भारतीय संस्कृतेः पोषिका या शास्त्रसम्पद् अस्ति, सा सर्वथा संस्कृतभाषायाः एव प्रसूतिः। अतः अस्माकं व्यवहारे संस्कृतभाषाया: समावेशः अनिवार्यः अस्ति। वयं कार्यकर्तार: भाषाबलेन बहु किमपि साधयितुं शक्नुम:। सम्भाषण शिविराणां संचालनं अस्माकं बलं वर्तते। अस्मिन् वर्गे संस्कृत भारत्या: अखिल भारतीय महामन्त्री श्रीमान् सत्यनारायण भट्टवर्य: श्रीमान् जयप्रकाश वर्याणां सानिध्यं दिनत्रयं कार्यकर्तृभि: सम्प्राप्तम्। अस्मिन् वर्गे संस्कृत भारत्या: अखिल भारतीय शलाकापरीक्षा संयोजक: प्रो.शिवशंकर मिश्रवर्य: तथा काशीहिन्दूविश्वविद्यालयस्य आचार्या: प्रो. रामनारायण द्विवेदिवर्याणां प्रो रामशलाही द्विवेदिभागानां, सानिध्यं सम्प्राप्तम्। रामायण कुटीरस्य स्वामी श्री रामहृदय दास: ‘जिज्ञासु’ सर्वेषांमपि धन्यवादवचनेन आशीर्वादं प्रदत्वान्। कानपुर-गोरक्ष-अवध-काशी चतुर्णां प्रान्तानां ३२ कार्यकर्तार: प्रशिक्षणं प्राप्तवन्तः। समारम्भस्य आरम्भः वैदिक-मङ्गलाचरणेन जातः। संस्कृत भाषायां प्रेरकवक्तव्यैः सांस्कृतिक प्रस्तुतिभिश्च उपस्थितजनाः प्रेरिताः। अस्मिन्नेव अवसरे क्षेत्रसंघटनमन्त्री प्रमोदपण्डित:, वर्गसंयोजक: डॉ रत्नेशत्रिवेदी, जोखनपाण्डेय:, नागेश दूबे, नागेश पाण्डेय:, सर्वेश कुमार शाण्डिल्य: आश्रमस्य अन्ये विद्वज्जनाः विभिन्न सामाजिका: समागताः कार्यकर्तार: समुपस्थिताः आसन्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 8 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 6 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 5 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 4 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 7 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 5 views

    You cannot copy content of this page