
देहरादून/वार्ताहर:। उत्तराखण्डे देवभूमिनगरस्य चारधामस्य सह अन्यमन्दिराणि तीर्थस्थलानि च बहुसंख्याकाः भक्ताः गच्छन्ति, यत् तीर्थयात्रायाः दृष्ट्या महत्त्वपूर्णम् अस्ति। एतावता केवलं चारधामं गताः ३२ लक्षजनाः। अधुना राज्ये तीर्थयात्रायाः व्याप्तेः वृद्ध्या चारधाममार्गादिषु अन्येषु स्थानेषु अपि आर्थिक क्रियाकलापाः वर्धन्ते, येन स्थानीय अर्थव्यवस्थायाः बलं प्राप्यते। देशस्य विदेशेभ्यः च तीर्थयात्रिकाः प्रतिवर्षं यात्राकाले उत्तराखण्डे, बद्रीनाथ, केदारनाथ, गङ्गोत्री, यमुनोत्री इत्यादिषु स्थितेषु चतुर्षु धामेषु गच्छन्ति। अस्मिन् यात्राऋतौ एव चारधामस्य हेमकुन्द साहबस्य च ४४ लक्षाधिकं पञ्जीकरणं कृतम् अस्ति। एतेषु अद्यावधि प्रायः ३२ लक्षंतीर्थयात्रिकाःयात्रां सम्पन्नवन्तः। अस्यसकारात्मकः आर्थिक प्रभावः चारधाम यात्रामार्गे दृश्यत।
अस्मिन् क्रमे मुख्यमन्त्री पुष्करसिंह धामी अन्येषां तीर्थस्थलानां, धामानां, मन्दिराणां च प्रचारार्थं निरन्तरं बलं ददाति स्म, येन तीर्थयात्रिकाणां आगमनेन तत्र आर्थिक क्रियाकलापाः अपि त्वरिताः भवितुम् अर्हन्ति। सर्वकारस्य सकारात्मक परिकल्पनायाः परिणामः रुद्रप्रयाग मण्डलस्य कार्तिकेय स्वामी मन्दिरस्य, उत्तरकाशी स्थस्य जगन्नाथ मन्दिरस्य अपि च अन्य मन्दिराणां भ्रमणं कुर्वतां तीर्थयात्रिकाणां संख्या वर्धमानस्य रूपेण आगतः। गतवर्षे प्रायः चतुर्लक्षजनाः कार्तिकेयस्वामीमन्दिरं प्राप्तवन्तः, अस्मिन् समये अपि तत्र बहुसंख्याकाः भक्ताः आगच्छन्ति। अस्मिन् वर्षे एतावता २५ सहस्राणि तीर्थयात्रिकाः उत्तरकाशी नगरस्य जगन्नाथमन्दिरं प्राप्तवन्तः। अन्यधर्मस्थानानां अपि तथैव दृश्यम्। फलतः चारधामयात्रामार्गवत् एतेषु क्षेत्रेषु अपि होटेल्, रेस्टोरन्ट्, परिवहनं, प्रसादः इत्यादीनि सर्वाणि आर्थिकक्रियाकलापाः वर्धिताः सन्ति। अनेन स्थानीयवासिनां आजीविकायाः अभवत्। सर्वकारस्य सकारात्मक परिकल्पनायाः परिणामः रुद्रप्रयागमण्डलस्य कार्तिकेयस्वामी मन्दिरस्य, उत्तरकाशीस्थस्य जगन्नाथमन्दिरस्य अपि च अन्य मन्दिराणां भ्रमणं कुर्वतां तीर्थयात्रिकाणां संख्या वर्धमानस्य रूपेण आगतः। गतवर्षे कार्तिकेयस्वामी मन्दिरं प्रायः चतुर्लक्षजनाः प्राप्ताः आसन्, अस्मिन् समये अपि तत्र बहुसंख्याकाः भक्ताः आगच्छन्ति। अस्मिन् वर्षे एतावता २५ सहस्राणि तीर्थयात्रिकाः उत्तरकाशीनगरस्य जगन्नाथमन्दिरं प्राप्तवन्तः। अन्यधर्म स्थानानां अपि तथैव दृश्यम्। फलतः चारधाम यात्रामार्गवत् एतेषु क्षेत्रेषु होटेल्, रेस्टोरन्ट्, परिवहनं, प्रसादः इत्यादयः सर्वेऽपि आर्थिक क्रियाकलापाः वर्धिताः सन्ति। अनेन स्थानीयवासिनां आजीविकायाः वृद्धिः अभवत्। उत्तराखण्डस्य समग्र विकासाय सर्वेषु क्षेत्रेषु तीर्थयात्रायाः पर्यटनस्य च क्रियाकलापाः तीव्राः करणीयाः। उत्तराखण्डः देवभूमिः अस्ति, अत्र प्रत्येकस्य मन्दिरस्य स्वकीयं महत्त्वम् अस्ति। सर्वेषु तीर्थस्थलेषु मूलभूतसुविधानां विकासाय सर्वकारः प्रयतते। ‘ – पुष्कर सिंह धामी, मुख्यमंत्री, उत्तराखंड






